SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ १-देवतत्त्वम् गा-११ * प्रवचनसारोद्धारे - ४५१, ४५२ संबोधसित्तर्याम् - ४, ५ * एकचत्वारिंशत्तमं द्वारमाह अन्नाणकोहमयमाणलोहमायारई य अरई य । निद्दासोय अलियवयणचोरियामच्छरभया य ।। पाणिवहपेमकीलापसंगहासा य जस्स इय दोसा । अट्ठारस्सवि पणट्ठा नमामि देवाहिदेवं तं ।। 'अन्नाणे 'त्यादिगाथाद्वयम्, अज्ञानं संशयानध्यवसायविपर्ययात्मकं मौढ्यं क्रोधः कोपः, मदः कुलबलैश्वर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधर्षणानिबन्धनं वा, मानो दुरभिनिवेशामोचनं युक्तोक्ताग्रहणं वा, लोभो गृद्धिः, माया दम्भः, रतिरभीष्टपदार्थानामुपरि मनः प्रीतिः, अरतिरनिष्टसम्प्रयोगसम्भवं मनोदुःखम्, निद्रा स्वापः, शोकश्चित्तवैधुर्यम्, अलीकवचनं वितथभाषणम्, 'चोरिका' परद्रव्यापहारः, मत्सरः परसम्पदसहिष्णुता, भयं प्रतिभयः, प्राणिवध: प्राण्युपमर्दः, प्रेम स्नेहविशेषः, क्रीडाप्रसङ्गः क्रीडायामासक्तिः, हासो हास्यम्, इति यस्य दोषा अष्टादशापि प्रणष्टा देवाधिदेवं तमिति ।। ४५१, ४५२ ।। * संबोधसप्ततिकायाम् - ४, ५ * ७-रतिः पदार्थानामुपरि प्रीतिः च पुनररतिरप्रीतिः । 1 १६- क्रीडा स्त्रीविलासो द्यूतादिश्च १७ - प्रसङ्गः स्त्र्यादीनां संयोगः ।। १९ चक्रे : ईदृक्स्वरूपो देवस्तद्विपरीतस्त्वदेव इति निश्चितमतेरङ्गिनो देवाधिदेवनामान्याहुः देव० : एवमवधारितस्वरूपो देवः पुनः किमभिधान इति जिज्ञासायां तन्नामधेयान्याह - तस्स पुणो नामाई तिनि जहत्थाइं समयभणियाई । अरिहंतो अरहंतो अरुहंतो भावणीयाइं ।। ११ ।। चक्रे० : स्पष्टा ।।११।। देव० : तस्य पुनर्वर्णितस्वरूपस्य भगवतो यथार्थानि न पुनर्मण्डपादिवन्निरन्वयानि, समयभणितानि सूत्रोक्तानि त्रीणि नामानि भावनीयानि । केनोल्लेखेन ? अरिहंता अर्हन् अरुहन्निति, इति शब्दस्याध्याहारः, इति गाथार्थः ।।११।। १. अरोहन्निति TC
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy