SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १-देवतत्त्वम् गा-८ 'जम्मप्पभिई चउरो' त्ति जन्मप्रभृति चत्वारः । 'जिणाण इक्कार घाइकम्मखओ' त्ति जिनानामेकादशातिशया घनघातिकर्मक्षयाद्भवन्ति। 'सुरविहिअइगुणवीसं' ति सुरैः कृता अतिशया एकोनविंशतिर्भवन्ति । 'चउतीसं अइसया उ इमे' त्ति सर्वेऽप्येकीकृताश्चतुस्त्रिंशदतिशया भवन्ति इमे वक्ष्यमाणा इति गाथार्थः ।।९३।। चक्रे० : सम्प्रति प्रातिहार्याण्याहुः - देव० : सम्प्रति प्रातिहार्याण्याह - कंकिल्लि कुसुमवुट्ठी दिव्वज्झुणि चामरासणाइं च । भावलय भेरिछत्तं जयंति जिणपाडिहेराई ।।८।। चक्रे० : स्पष्टार्था, नवरं दिव्यध्वनिदेवतिर्यग्भाषासंवादी योजनगामी स्वामिनो देशनानिनादः । 'पाडिहेराइंति प्रतीहारस्य कर्म प्रातिहार्यं यथा प्रतीहारः सदा संनिहितो भवति तथा समवसरणाभावेऽपि प्रातिहार्याणि सदा संनिहितानि भवन्तीत्यतिशयमध्योक्तान्यपि पृथगुक्तानि । विभक्तिलोपादिकं चात्र सर्वत्र प्राकृतत्वात् ।। ८ ।। देव० : 'जयंति' शेषाप्तमहिमानमधःकुर्वते, कानि ? कङ्केल्लिप्रभृतीनि जिनप्रातिहार्याणीति सम्बन्धः । तत्र कङ्केल्लिर्दिनकरकरप्रसरावारकोऽशोकवृक्षः, एतन्मानं च - बत्तीसं धणुहाइं चेइयरूक्खो उ वद्धमाणस्स । सेसाणं तु जिणाणं ससरीरा बारसगुणाओ ।। [विचारसार-१६३] कुसुमवृष्टिः सुरकरविमुक्ताधःस्थितवृन्तजानुदध्नपञ्चवर्णसुगन्धिपुष्पवर्षः, दिव्यध्वनिः सुरनरशबरतिर्यग्जन्तुजातस्वस्वभाषापरिणामरमणीयः, सङ्ख्यातीतपरिषत्प्राणियुगपदनेकसंशयापहारचतुरः, क्षीरेक्षुद्राक्षाद्यधिकतरमाधुर्यवानायोजनगामी देशनानिनादः । चामरे त्रिभुवनैश्वर्यसंसूचके शरच्चन्द्रमरीचिनिचयगौरे प्रकीर्णके । आसनममेयमहिमाविर्भावकम्, समुच्छलत्पञ्चवर्णमणिकिरणकदम्बकर्बुरितदिगन्तरं सिंहासनम् । भावलयं निर्जितमार्तण्डमण्डलं मौलिपृष्ठप्रतिष्ठितं पृष्ठतः संवर्तितशरीरप्रभाजालम् । भेरी पुरतो व्योम्नि शब्दायमानः प्रतिरवभरितभुवनोदरो दुन्दुभिः । छत्रमेकदेशे समुदायोपचाराज्जगत्त्रयैकप्रभुत्वाविर्भावनचतुरा १. कंकेल्लि A,C २. सौहित्यकृदायोजनगामी T,B,C ३. निर्मुक्तसङ्गेषु साम्राज्यसंसूचके T,B.C ४. मणिरत्नप्रभापटसमुच्छलदनेकाखण्डलकोदण्डखण्डं सिंहासनम् T,B,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy