SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सर्ववाञ्छित-मोक्षफलप्रदायकश्रीशवेश्वरपार्श्वनाथाय नमः णमोऽत्थु णं समणस्स भगवओ महावीरस्स नमो नमः श्रीगुरुरामचन्द्रसूरये ऐं नमः वादीभसिंहपूज्याचार्यश्रीचन्द्रप्रभसूरिविरचितं पूज्याचार्यश्रीचक्रेश्वरसूरिप्रारब्धतत्प्रशिष्यपूज्याचार्यश्रीतिलकसूरिनिर्वाहितवृत्तियुतं पूज्याचार्यश्रीदेवभद्रसूरिसंदृब्धान्यवृत्तिसमेतञ्च दर्शनशुद्धिप्रकरणम् अपरनाम सम्यक्त्वप्रकरणम चक्रे. : यद्वक्त्राम्भोजवाप्याः स्फुटवचनघटीयन्त्रचारेण निर्यत, सूरिश्रेणिप्रणालीप्रणयिगुरुगुणप्रोच्छलच्छीकरौघम् । तत्त्वाम्भोऽद्यापि सिञ्चत्सफलयतितमां शासनोद्यानमेतत्; तं भक्त्या नौमि नम्रस्त्रिजगदधिपतिं श्रीजिनं वर्धमानम् ।। श्रुतसारस्य सम्यक्त्वग्रन्थस्यार्थगरीयसः । सुबोधां वृत्तिमाधास्ये मुक्त्वा सक्षेपविस्तरौ ।। किन्तु ग्रन्थेष्वभिज्ञाः शृणुत शुभधियः सावधानं विधाय, स्वान्तं तत्त्वप्रकाशो भवति गुणवति श्रोतरि श्राव्यमाणे । तत्त्वाभ्यासानुरागाद्विरचयितुमिमां मे मतिः सम्प्रवृत्ता; कश्चिद् भव्योपकारो यदि परमपरा सा भवेत् पुण्यसिद्धिः ।। यद्वैतामुपकारिणीं न कलयाम्याश्रित्य बुद्धयाऽधिकान्, स्पर्धाबन्धभृतो बुधान् सममतीनुद्दिश्य जल्पोऽपि कः । ये मत्तोऽपि जना विहीनमतयः किं तैः पुनर्ज्ञास्यते; तां वृत्तिं गुणिनोऽधुना रचयितुं सन्देग्धि तन्मे मनः ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy