SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३७८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम सरसा विचारबहुला सच्चक्रानन्दहेतुरस्ताघा । दर्शनशुद्धेर्वृत्तिः क्षमाभृतोऽजनि नदीव यतः ।।१०।। सूरिः श्रीदेवभद्राख्यस्तस्यशिष्योऽस्मि मन्दधीः । प्रतिष्ठितः स्वहस्तेन श्रीधर्मघोषसूरिभिः ।।११।। गुरोस्तेन बृहद्वृत्तेरुद्धृत्य कतिचिल्लवाः ।। निबद्धा वृत्तिरूपेण सत्त्वानां हितकाम्यया ।।१२।। सूरेः श्रीशान्तिभद्राख्यस्वशिष्यस्य महामतेः । साहाय्यादयमारम्भो निष्ठाकोटिमटीकत ।।१३।। मुनिप्रभाभिधानेन विदुषैषा स्फुटाक्षरा । अलेखि प्रथमादर्श विश्वविज्ञानशालिना ।।१४ ।। ग्रन्थाग्रं श्लोकमानेन वृत्तावस्यामुदीरितम् । बुधै स्त्रीणि सहस्राणि संयुतान्यष्टभिः शतैः ।।१५।। यावव्योमवने निरायतकरैर्नक्षत्रपुष्पावलीं, चिन्वानो वरिवर्तते प्रतिदिनं भास्वान्महामालिकः । ग्रन्थस्तावदयं सुवर्णनिधिवनानार्थसिद्धिप्रदः; तत्त्वप्रीतितरस्विनां कृतधियां चेतश्चिरं चुम्बतु ।।१५।। श्रीरस्तु ।। । संशोधन-सम्पादन-प्रशस्तिका ।। दीक्षायुगप्रवर्त्तकव्याख्यानवाचस्पति-भावाचार्यतपागच्छाधिराज-पूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां दीक्षाशताब्दीवर्षे तच्छिष्यालङ्कारवर्धमानतपोनिधिविंशतिस्थानकाद्यनेकतपःप्रभावकमुमुक्षु-मुनिवृन्दपाठनैककुशल-सहजसमाधिप्राप्तपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणां सञ्चरणचञ्चरीकेण विजयकीर्तियशसूरिणा वैक्रमीये २०६८ तमे वर्षे संशोधितं सम्पादितञ्चेदं वादीभसिंहपूज्याचार्यश्रीचन्द्रप्रभसूरिविरचितं पूज्याचार्य श्रीचक्रेश्वरसूरिप्रारब्धतत्प्रशिष्यपूज्याचार्यश्रीतिलकसूरिनिर्वाहितवृत्तियुतं पूज्याचार्य श्रीदेवभद्रसूरिसंदृब्धान्यवृत्तिसमेतञ्च श्रीदर्शनशुद्धिप्रकरणमपरनामश्रीसम्यक्त्वप्रकरणम्। शुभं भवतु सकलश्रीसङ्घस्येति ।। १. गङ्गेव यतस्तुङ्गाद्दर्शनशुद्धरजनि वृत्तिः T.B २. भव्यानां T,B ३. कर्मसु विश्वकर्मणा T,B
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy