SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तद् ज्ञानाद्यादिशब्दात्सम्यग्दर्शनचारित्रपरिग्रहो ज्ञानादि च तत् त्रिकं च ज्ञानादित्रिकं तथा तपो द्वादशप्रकारमनशनादि तथा क्रोधस्य निग्रहः क्रोधनिग्रहो बहुवचनं माननिग्रहादिपरिग्रहार्थम्, इत्येवं प्रकारमेतच्चरणं भवतीति, ‘कोहनिग्गहाई चरणं' इति तु पाठे क्रोधनिग्रह आदिर्यस्य माननिग्रहादिकदम्बकस्य तत्क्रोधनिग्रहादि, एतच्चरणमवसेयमिति । इह सहृदयंमन्यः प्राह - ननु चतुर्थव्रतान्तर्गतत्वाद् गुप्तयो न पृथग्भणनीयाः, अथ परिकरभूताश्चतुर्थव्रतस्य ब्रह्मचर्यगुप्तयोऽभिधीयन्त एवं तर्हि प्राणातिपातविरमणादेरेकैकस्य व्रतस्य परिकरभूता भावना अपि वाच्याः, गुप्तेर्भणने वा चतुर्थं व्रतं न भणनीयम्, तथा ज्ञानादित्रिकस्य ग्रहणं न करणीयम्, किन्तु ज्ञानसम्यग्दर्शनयोरेवोपन्यासः कार्यः, चारित्रस्य व्रतग्रहणेनैव ग्रहणात्, तथा श्रमणधर्मग्रहणे संयमग्रहणं तपोग्रहणं चातिरिच्यते, संयमतपसी वोद्धृत्य श्रमणधर्मोपन्यासः करणीयः, तथा तपोग्रहणे सति वैयावृत्त्यस्योपन्यासो निरर्थकः, वैयावृत्त्यस्य तपोऽन्तर्गतत्वात्, तथा क्षान्त्यादिधर्मग्रहणे सति क्रोधादिनिग्रहग्रहणमनर्थकमेव, तदियं गाथा परिभाव्यमाना आलूनविशीर्णेति, तत्रोच्यते, चतुरचक्रवर्तिभिर्यदेतदुच्यते- व्रतग्रहणे सति गुप्तयो न पृथग्वाच्या इति, तदयुक्तम्, चतुर्थव्रतस्य हि निरपवादत्वं दर्शयितुमेता ब्रह्मचर्यगुप्तयः पृथगुपात्ताः, यदुक्तमागमे - नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मुत्तुं मेहुणभावं न विणा तं रागदोसेहिं ।। इति। [नैव किञ्चिदनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रैः । मुक्त्वा मैथुनभावं न स विना रागद्वेषौ ।।] ३६८ अथवा प्रथमचरमतीर्थकरयोः परिग्रहव्रताद् भिन्नमेतन्महाव्रतं भवतीत्येतस्यार्थस्य ज्ञापनार्थं भेदेनोपन्यास इति, यच्चाभ्यधीयत-व्रतग्रहणे ज्ञानादित्रिकं न वक्तव्यम्, किन्तु ज्ञानदर्शनद्वयमेव चारित्रस्य व्रतग्रहणेनैव गतत्वादिति, तदयुक्तम्, यतो यदेतद् व्रतचारित्रं स एकांशः सामायिकादेः पञ्चविधस्य चारित्रस्य चतुर्विधं चारित्रमद्याप्यगृहीतमस्ति, तदर्थं ज्ञानादित्रयमुपन्यस्तमिति, यञ्चोक्तम् - श्रमणधर्मग्रहणे संयमतपसोरुपादानं न विधेयम्, श्रमणधर्मग्रहणेनैव तयोर्गृहीतत्वात् तदप्यसाधु, संयमतपसोः प्रधानमोक्षाङ्गत्वेन पृथगुपादानात्, कथं मोक्षं प्रति प्रधानाङ्गत्वमिति चेत्, तत्र ब्रूमः - अपूर्वकर्माश्रवसंवरहेतुः संयमः, पूर्वोपार्जितकर्मक्षयहेतुश्च तपः, ततः प्रधानत्वमनयोः, अतः श्रमणधर्मगृहीतयोरप्यनयोः प्रधानतया भेदेनोपन्यासः कृतः, दृष्टश्चायं न्यायो यथा ब्राह्मणा आयाता वशिष्टोऽप्यायातः, अत्र हि ब्राह्मणग्रहणेन वशिष्टस्यापि ग्रहणं कृतमेव तथापि प्रधानतया तस्य भेदेनोपन्यासः क्रियत इति यच्चोक्तम्- तपोग्रहणेन वैयावृत्त्यस्यापि ग्रहणाद्भेदेन तदुपादानं न विधेयमिति, तदप्यचारु, वैयावृत्त्यस्य यथा स्वपरोपकारकारित्वेन प्राधान्यं न तथाऽनशनादीनां शेषतपोभेदानामिति ख्यापनार्थं तस्य भेदेनोपादानम्, यच्चाभिहितम् - श्रमणधर्मग्रहणेनैव गृहीतत्वात्क्रोधादिनिग्रहः पृथग् न वक्तव्य इति, तदप्यसाधीयः, यतो द्विविधाः क्रोधादयः - उदीर्णा अनुदीर्णाश्च, तत्रोदीर्णानां क्रोधादीनां निग्रहणं क्रोधादिनिग्रहोऽनुदीर्णानां तु तेषामुदयनिरोधनं क्षान्त्यादय इति ज्ञापनार्थं पृथगुपादानम्, अथवा वस्तु त्रिविधं ग्राह्यं हेयमुपेक्षणीयं च तत्र क्षान्त्यादयो ग्राह्याः क्रोधादयो या अतो निग्रहीतव्यास्त इत्येवमर्थमित्थमुपन्यासः, ततः सर्वमनवद्यमिति । । ५५१ ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy