________________
५-तत्त्वतत्त्वम् गा-२४९
३३९
सिद्धान्तेऽङ्गोपाङ्गरूपे यदुक्तम्, तत् तथेति श्रद्दधानः सूत्ररुचिः । ५-एकस्मिन्नपि पदे जीवादितत्त्वरूपेऽनेकानि पदानि सम्यक्त्वविषयाणि प्रसरन्ति बीज इव मूलाङ्करपत्रपुष्पफलानि, तत्र बीजकल्पे रुचिर्यस्य स बीजरुचिः । ६-अभिगमेन समस्तश्रुतार्थपरिच्छेदेन रुचिर्यस्य सोऽभिगमरुचिः । ७-सर्वप्रमाणनयविधिभिर्यः सर्वद्रव्यभावोपलम्भरूपो विस्तारस्तत्र रुचिर्यस्य स विस्ताररुचिः । ८-ज्ञानदर्शनचारित्रतपोविनयसत्यसमितिगुप्तिक्रियासु रुचिर्यस्य स क्रियारुचिः । ९-अनभिगृहीतकुदृष्टिः प्रवचनाऽनभिज्ञोऽपि भावेन जिनोक्ततत्त्वानि श्रद्दधानः संक्षेपरुचिः । १०-योऽस्तिकायधर्मं श्रुतधर्मं चारित्रधर्मं च जिनोक्तं श्रद्धते स धर्मरुचिः। तदेवंविधं मोक्षतरुबीजभूतं सम्यक्त्वं सम्प्रतिराजवद्धारयेत् ।।२४९।।
देव० : तत्रैकविधं तत्त्वरुचेः सर्वत्रानुगतत्वात्, तस्या एव नैसर्गिकाधिगमजभेदविवक्षया द्विविधम्, तत्र नैसर्गिकं जातिस्मरादिप्रभवम्, अधिगमजं तु गुर्वाधुपदेशात्तत्त्वाधिगमसम्भवम्,
अविवक्षितनिसर्गाधिगमक्षायिकक्षायोपशमिकौपशमिकभेदविवक्षया वेदकस्य क्षायोपशमिकत्वेन विवक्षणात्सास्वादनस्य चानन्तानुबन्धिकषायदूषितत्वेनाविवक्षणाच्च त्रिविधम्, तत्र क्षायिकमनन्तानुबन्धि४मिथ्यात्वमिश्रसम्यक्त्व७क्षयाज्जातम् । ननु सम्यक्त्वक्षये कुतः सम्यग्दृष्टित्वम् ? उच्यते-निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यक्त्वम्, तत्परिक्षये च तत्त्वरुचिपरिणामानिवृत्तेः प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्दर्शनवद्विशुद्धतरापत्तेः क्षायोपशमिकं पुनरेवम्-इह कश्चित्प्रवाहतोऽनादिमिथ्यादृष्टिस्तथाविधधर्माचार्यसामग्रीसमवधाने सत्यपूर्वकरणेनाभिमुखीभवन्मिथ्यात्वपुञ्जकान्मिश्रपुञ्जकं करोति, मदनकोद्रवपुञ्जकादिवार्धविशुद्धतत्पुञ्जकम्, ततोऽपि सम्यक्त्वपुञ्जकमर्धविशुद्धकोद्रवपुञ्जकादिव सर्वविशुद्धतत्पुञ्जकम्, तञ्च निर्मलतयात्मनस्तत्त्वरुचेरावृतिं न करोति, स्वच्छाभ्रपटलगृहकमिव प्रदीपप्रभायास्ततस्तत्तृतीयसम्यक्त्वपुञ्जकं विशिष्टविपाकतो वेदयञ्जन्तुः क्षायोपशमिकसम्यग्दर्शनी भण्यते, यत उक्तम्-'मिच्छत्तं जमुइन्नं' उदयावलिकास्थं 'तं खीणं अणुइयं तु उवसंतं विष्कम्भितोदयमपनीतमिथ्यास्वभावं चोपशान्तमुच्यते, तत्र विष्कम्भितोदयं शेषमिथ्यात्वम्, अपनीतमिथ्यास्वभावं च विशोधितसम्यक्त्वपुञ्ज एव 'मीसीभाव' क्षयोपशमरूपं ‘परिणयं वेइज्जंतं, प्रदेशतो मिथ्यात्वम्, रसतस्तु सम्यक्त्वं 'खओवसमं' औपशमिकं तु
उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं ।।
जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ।। [विशेषा.भा. ५२९] १. अर्हन् देवः सुसाधुर्गुरुर्जिनोक्तमेव तत्त्वमिति बीजे - धर्मबीजभूते रुचिर्यस्य स बीजरुचि: M