SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ५-तत्त्वतत्त्वम् गा-२४८ सव्वा ओवि गईओ अविरहिया नाणदंसणधरेहिं । ता मा कासि पमायं नाणेण चरित्तरहिएणं ।। [ ] यद्यप्यन्तकृत्केवलिनश्चरणरहिता अपि सिद्ध्यन्तीत्यभिहितं तदपि नातिपेशलम्, यतस्तेषामपि सर्वसंवररूपचारित्रव्यतिरेकेण सिद्धेरभावात् भावचारित्रव्यतिरेकेण केवलज्ञानस्याप्यनुत्पादाच्च, तथा च स्वयमेव वक्ष्यति ‘चरणकरणेहिं रहिओ न सिज्झई सुटु सम्मदिट्ठी वि' इति गाथार्थः । । २४८ । । * आवश्यकनिर्युक्तो - ११५९* किञ्च-शक्य एवोपाये प्रेक्षावतः प्रवृत्तिर्युज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतो मोक्षोपायत्वे सत्यप्यशक्यासेवनम्, सूक्ष्मापराधेऽप्यनुपयुक्तगमनागमनादिभिर्विराध्यमानत्वादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तद्भ्रंश उपजायते सर्वस्यैवातः भट्टेण चरित्ताओ सुट्टुयरं दंसणं हेयव्वं । सिज्झति चरणरहिया दंसणरहिया न सिज्झति ।। ३३७ भ्रष्टेन च्युतेन, कुतः ? चारित्रात्, सुतरां दर्शनं ग्रहीतव्यम्, पुनर्बोधिलाभानुबन्धिशक्यमोक्षोपायत्वात्, तथा च-सिद्ध्यन्ति चरणरहिताः प्राणिनः दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणम्, तद्भावभावित्वादित्ययं गाथार्थः ।।११५९।। * हितोपदेशप्रकरणे - २१ * कथम् ? इत्याह भट्टेण चरित्ताओ सुट्ठयरं दंसणं गहेयव्वं । सिज्झति चरणरहिया दंसणरहिया न सिज्झति ।। चरित्राद् व्यावहारिकसंयमाद्, भ्रष्टेन परिपतितेन चारित्रधात्रीधरशिरः परिसरतस्तदावरणकर्मणा नन्दिषेणादिवत् पर्यस्तेन, दर्शनं सम्यक्त्वं शुद्ध्यतिशयेन ग्रहीतव्यमङ्गीकार्यम् । किम् ? इत्यत आह चरणरहिता व्यावहारिकचारित्रविनाकृता अपि सिद्ध्यन्ति सिद्धिमध्यासते मरुदेवादिवत् । दर्शनरहितास्तु तीव्रव्रतभृतोऽपि निह्नवादिवन्न सिद्ध्यन्तीति । । २१ ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy