SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ५-तत्त्वतत्त्वम् गा-२३५ ३१७ पंस्त्रीवेदयोः कर्मग्रन्थाभिप्रायेण पञ्चेन्द्रियेष्वेव ४, सूत्राभिप्रायेण तु पर्याप्तापर्याप्तसंज्ञिनावेव, असंज्ञी तु पर्याप्तोऽपर्याप्तो वा नपुंसकवेदं एव, तथा च प्रज्ञप्तिः - 'असन्निपुच्छा-गोयमा नपुंसगवेयगा' नपुंसकवेदे तु सर्वेपि १४ । कषायद्वारे चतुर्ध्वपि सर्वेपि १४ । ज्ञानद्वारे मतिश्रुतावधिविभङ्गेषु पर्याप्तापर्याप्तसंज्ञिनौ २, मन:पर्यवकेवलयोः पर्याप्तसंश्येव १, मतिश्रुताज्ञानयोः सर्वेऽपि १४ । संयमद्वारे देशसंयमे सामायिकादिषु च पर्याप्तसंज्ञी १, असंयमे तु सर्वेऽपि १४ । दर्शनद्वारे चक्षुर्दर्शने पर्याप्तचतुरिन्द्रियासंज्ञिसंज्ञिनः ३, अचक्षुर्दर्शने सर्वेऽपि १४, अवधिदर्शने पर्याप्तापर्याप्तसंज्ञिनौ २, केवलदर्शने संज्ञिपर्याप्तकः १ । लेश्याद्वार आद्यासु तिसृषु सर्वेऽपि, तैजस्यां बादरापर्याप्तकः संज्ञिद्विकं च ३, पद्मशुक्लयोस्तु संज्ञिद्विकम् २। भव्यद्वारे भव्येष्वभव्येषु च सर्वेऽपि १४ । सम्यक्त्वद्वारे क्षायोपशमिकक्षायिकयोः संज्ञिद्वयम् २, सास्वादनेऽपर्याप्तबादरद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिनः संज्ञिपर्याप्तकश्च ७, मिश्रौपशमिकयोः पर्याप्तसंज्ञी, यत्पुनरौपशमिके संज्ञिनमपर्याप्तमपि केचिदिच्छन्ति तन्न युक्तिक्षमम्, यतोऽपर्याप्तावस्थायां तथाविधशुद्धयभावात्तस्यानुत्पत्तेः - अणुबंधोदयमाउगबंधं कालं च सासणो कुणइ । उवसमसम्मद्दिट्ठी चउण्हमिक्कंपि नो कुणइ ।। [ ] इति वचनात् पारभविकस्याप्यघटनादिति, मिथ्यात्वे तु सर्वेऽपि १४ । संज्ञिद्वारे संज्ञिनि संज्ञिद्विकमसंज्ञिनि संज्ञिद्विकरहिता द्वादश १४ । आहारकद्वार आहारकेषु सर्वे, अनाहारके तु सप्तापर्याप्ताः, संज्ञिपर्याप्तकश्च १४ । इति मार्गितानि गत्यादिषु जीवस्थानानि । __ सम्प्रति गुणस्थानानि मृग्यन्ते-तत्र गतिद्वारे देवनारकयोराद्यानि चत्वारि ४, तिर्यक्षु पञ्च ५, मनुष्येषु चतुर्दशापि ४ । इन्द्रियद्वार एकेन्द्रियविकलेन्द्रियेष्वाद्ये द्वे २, पञ्चेन्द्रियेषु चतुर्दश १४ । कायद्वारे पृथिव्युदकवनस्पतिष्वाद्ये द्वे २, तेजोवायुषु प्रथममेव १, त्रसकाये चतुर्दश १४, योगद्वारे सामान्येन त्रयोदश १३, चरमगुणस्थानं त्वयोगिन एवमुत्तरत्रापि भावनीयम्। वेदद्वारे नव ९। कषायद्वारे कषायत्रये नव ९, लोभे तु दश १० । ज्ञानद्वारे मतिश्रुतावधिष्वविरतादीनि नव ९, मनःपर्यवे तु प्रमत्तादीनि सप्त ७, केवले चरमे द्वे २, अज्ञानत्रिके त्वाद्ये द्वे २, मिश्रष्टेरप्यज्ञानवादिनां तु मते त्रीणि ३, सास्वादनसम्यग्दृष्टेस्त्वनन्तानुबन्धिकषायैरतिदूषितत्वादज्ञानमेव। १. संज्ञिद्विकं T,B,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy