SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३०६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : ज्ञायतेऽवबुध्यतेऽनेन वस्तुतत्त्वमिति ज्ञानम्, तच्च सम्यग्ज्ञानमेव पञ्च विकल्पा भेदा यस्य तत्तथा, भेदाश्चाभिनिबोधिकश्रुतावधिमनःपर्यवकेवलाख्यास्तत्राभिमुखो योग्यदेशावस्थितवस्त्वपेक्षया नियतः स्वस्वविषयपरिच्छेदकतया बोधोऽभिनिबोधः स एवाभिनिबोधिकमिन्द्रियानिन्द्रियप्रभवमर्थावग्रहादिभेदम् । श्रूयते तदिति श्रुतं शब्दमात्रं तच्च द्रव्यश्रुतमेव, यत्पुनः शब्दमाकर्णयतः स्वयं वा वदतः पुस्तकादिन्यस्तानि वाक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं वार्थं विकल्पयतोऽक्षरारूषितं विज्ञानमुपजायते तदिह भावश्रुतमक्षरानक्षरादि । अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरित्येवंरूपा, तदुपलक्षितं ज्ञानमप्यवधिदेवनारकाणां भवप्रत्ययः शेषाणां सविपक्षानुगामिकावस्थितहीयमानभेदात् षोढा । मन इति मनोद्रव्यपर्यायास्तान् परिसमन्तादवगच्छतीति मनःपर्यवमृजुविपुलभेदं मनुष्पक्षेत्रवतिसंज्ञिमनःपर्यायाणां ग्राहकम्, न तु तञ्चिन्तितबाह्यवस्तूनाम्, तेषामनुमानगम्यत्वात्, तथा च 'जाणइ बज्झे अनुमाणाउ'त्ति केवलमसाधारणमनन्तं वा सकलद्रव्यगुणपर्यायावभासकमिति तथा मिथ्यात्वोदयवतामसदध्यवसायात्मकानि ज्ञानान्यप्यज्ञानान्येव, तेषां त्रिकं मत्यज्ञानश्रुताज्ञानविभङ्गरूपं सर्वमिति सुब्लोपः प्राकृतत्वात् । सर्वं ज्ञानमज्ञानं च, सह आकारेण ग्राह्यार्थसारूप्यलक्षणेन वर्त्तत इति साकारं विशेषग्राहकमित्यर्थः । तथा चतुर्णा दर्शनानां समाहारश्चतुर्दर्शनं चक्षुर्दर्शनादि, तत्र चक्षुषा सामान्याकारस्य ग्रहणं चक्षुर्दर्शनम्, शेषेन्द्रियैर्मनसा चाऽचक्षुर्दर्शनम्, अवधिना त्ववधिदर्शनम्, केवलेन पुनः केवलदर्शनम्, न विद्यत आकारो ग्राह्यार्थसारूप्यं यस्य, सामान्याकारग्रहणादनाकारमिह च मनःपर्यवज्ञानं विशेषाकारग्राहकमेवेति, न तत्कृतो दर्शनभेदो यदाह - विशेषानेव गृह्णानं क्षयोपशमपाटवात् । उत्पद्यते मनोज्ञानमतस्तत्र न दर्शनम् ।। [ ] यत्पुनर्मनःपर्यवज्ञानी क्वचित्सामान्याकारं गृह्णाति तदवधिदर्शनेनैव वेदितव्यं तथा विभङ्गिनो दर्शनमवधिज्ञानिना समानमेवेति न ज्ञानवत्तत्रापि भेदस्तथा च प्रज्ञप्तिः - ‘ओहिदसणअणगारोवउत्ताणं भंते किं नाणी अन्नाणी ? गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते अत्थेगइया तिन्नाणी अत्थेगइया चउनाणी जे अन्नाणी ते नियमा तिअन्नाणी'ति एवमुपयुज्यन्ते जीवस्य पदार्थग्रहणं प्रति साधनतां भजन्त इत्युपयोगा द्वादश भवन्तीति गाथार्थः ।।२३२।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy