________________
५-तत्त्वतत्त्वम् गा-२२०
चक्रे० : ननु यद्येवमतिसूक्ष्मत्वं पृथ्व्यादिशरीराणां तत्कथं दृश्यन्त इत्याहुः - देव० : ननु यद्येवमतिसूक्ष्माणि पृथिव्यादिशरीराणि तत्कथं मांसचक्षुषः पश्यन्तीत्याह -
एगस्स दुण्ह तिण्हव संखिज्जाण व न पासिउं सक्का ।
दीसंति सरीराइं पुढविजियाणं असंखेज्जा।।२२० ।। चक्रे० : एकस्य द्वयोस्त्रयाणां वा सङ्ख्येयानां वा पृथ्वीजीवानां शरीराणि न द्रष्टुं शक्यानि किन्त्वसङ्ख्येयानां मिलितानि तानि दृश्यन्त इत्यर्थः ।।२२० ।।
देव० : विभक्तिव्यत्ययादेक द्वे त्रीणि वा यावत्सङ्ख्येयानि शरीराणीति योगः, द्रष्टुं न शक्ताश्चर्मचक्षुष इति शेषस्तर्हि कथमित्याह-दृश्यन्ते शरीराणि पृथिवीजीवानामसङ्ख्येयानि समुदितानीत्यर्थ इति ।।२२० ।।
* आचाराङ्गनिर्युक्तौ-१४२, १४३ * सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वं प्रतिपिपादयिषयाह -
एगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं ।
पत्तेयसरीराणं दीसंति सरीरसंघाया ।। एकजीवपरिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुाह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्वं चक्षुदृश्यत्वं च, द्वित्रिसङ्ख्येयासङ्ख्येयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ।।१४२।।। किमनन्तानामप्येवम् ? नेत्यत आह -
इक्कस्स दुण्ह तिण्ह व संखिज्जाण व न पासिउं सक्का ।
दीसंति सरीराइं निओयजीवाणऽणंताणं ।। नैकादीनामसङ्ख्येयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, कुतः ?, अभावात्, न ह्येकादिजीवपरिगृहीतान्यनन्तानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं त पलभ्यास्ते भवन्तीति दर्शयति-दृश्यन्ते शरीराणि बादरनिगोदानामनन्तजीवानाम्, सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उक्तं च
१. संखेज्जाण A,2 २. असंखिज्जा P३. एकस्य द्वयोस्त्रयाणां वा यावदुत्कृष्टसंख्येयकानां वा पृथिवीजीवशरीराणामिति संटङ्कः । 'न पासिउंति न द्रष्टुम् T.B.C