SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ५- तत्त्वतत्त्वम् गा - २१७ चक्रे० : आहारादिपर्याप्तयोऽभिहितास्तत्किं जीवाः सर्वेऽप्याहारका एव किं वा नेत्याहुः - देव० : आहारपर्याप्तिरभिहिता, तत्किं जीवाः सर्वेऽप्याहारका एव किं वा नेत्याह - विग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा । । २१७ । । c २७९ चक्रे० : विग्रहगतिः समयभाषया वक्रगतिरुच्यते, इह भवान्तरे गच्छतां द्वे गती ऋजुर्वक्रा च, तत्र जीवपुद्गलयोरनुश्रेणिगमनादनुश्रेणिस्थ उत्पत्तिस्थान ऋजुगत्यैकेनैव समयेन गच्छति, तस्मिन्नेव चाऽऽहारं गृह्णाति, विश्रेणिस्थे तु द्वित्रिचतुर्वक्रां गतिमापन्ना आद्यसमये मोक्तव्यशरीराहाराः, अन्त्यसमय आगामिशरीराहारा मध्यमेषु त्वेकद्वित्रिसमयेषु यथासङ्ख्यमनाहाराः । वक्राणि चेत्थम् - विदिसाउ दिसं पठमे बीए पविसरइ नाडिमज्झमि । उड्डुं तइए तुरिए य नीइ विदिसं तु पंचमए ।। [ ] तथा केवलिनः सम्यक् समन्तत उत्प्राबल्येनाऽऽत्मप्रदेशैश्चतुर्दशरज्वात्मकं लोकाकाशं घ्नन्ति । धातूनामनेकार्थत्वात् पूरयन्ति स्मेति समुद्धताः समुद्घातं गता इत्यर्थः । ते ह्यायुषोऽल्पत्वं वेदनीयस्य च प्राचुर्यं ज्ञात्वा तत्समीकरणायाऽष्टसामयिकं समुद्धतं कुर्वन्ति । तद्विधिश्चायम् - दण्डं प्रथमे समये [स्वदेहविष्कम्भमूर्ध्वमधश्च लोकान्तगामिनम् ] कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ।। संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ।। [प्रशमरति-२७३, २७४] अत्र तृतीयचतुर्थपञ्चमसमयेष्वनाहारकाः केवलकार्मणयोगित्वाद्विग्रहगताविव वक्रसमयेषु । यदुवाच वाचकः औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ।। कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ।। [ प्रशमरति २७५, २७६]
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy