________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
देव० : पञ्चेन्द्रियाणि स्पर्शनादीनि, सुब्लोपः प्राकृतत्वाद्, एवमुत्तरत्रापि, त्रिविधबलं मनोवाक्कायजनितः शक्तिविशेषः, उल्लसति ह्येतत्सम्बन्धादात्मनः सामर्थ्यविशेषः, निःश्वसनं निःश्वासोऽधःपवनसञ्चारः, उत्स्वसेदुच्छ्वासस्तूर्ध्वमेताभ्यामेकमेव रूपम्, द्वयोरपि शारीरवायुविशेषत्वाद्, आयुर्जीवितम् चैवेति समुच्चये । एते दश प्राणाः प्रज्ञप्तास्तीर्थकृदादिभिः, एतद्व्यतिरेकेण जीवनाभावाद्, अत एव तेषां विघातो वियोजनं भवेद्धिंसा, न तु सर्वथा जीवविनाशस्तस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वाद्, इह चैकेन्द्रियाणां स्पर्शनेन्द्रियकायबलनिःश्वासोच्छ्वासायुर्लक्षणाश्चत्वारः, द्वीन्द्रियाणां रसनवाग्बलसहिताः षट् त्रीन्द्रियाणां घ्राणयुताः सप्त, चतुरिन्द्रियाणां चक्षुर्लक्षिताष्टौ, असञ्ज्ञिनां श्रवणोपेता नव, सञ्ज्ञिनां तु सम्पूर्णा दश प्राणा इति गाथार्थः । । २१५ ।।
२७६
चक्रे० : अथ पर्याप्तीराहुः
देव० : अथ पर्याप्तीः प्राह
-
आहारसरीरिंदिय पज्जत्ती आणपाण भासमणे । चत्तारि पंचछप्पिय एगिंदियविगलसन्नीणं । । २१६ । ।
चक्रे० : १ - यया ह्याहारमात्मा गृहीत्वा खलरसतया परिणमयति, सा शक्तिराहारपर्याप्तिः, २- यया रसीभूतमाहारं सप्तधातुतया परिणमयति, सा शरीरपर्याप्तिः, ३-यया तु धातुभूतमिन्द्रियतया परिणमयति सेन्द्रियपर्याप्तिः, ४-यया तूच्छ्वासप्रायोग्यं वर्गणाद्रव्यमादायोच्छ्वासतया परिणमय्य मुञ्चति सोच्छ्वासपर्याप्तिः, ५-यया तु भाषाप्रायोग्यं वर्गणाद्रव्यमादाय भाषात्वेनाऽऽलम्ब्य मुञ्चति सा भाषापर्याप्तिः, ६-यया तु मनःप्रायोग्यं वर्गणामादाय मनस्तयापरिणमय्य मुञ्चति सा मनः पर्याप्तिः, इह च वैक्रियाहारकशरीरिणां शरीरपर्याप्तिरान्तमौहूर्तिकी शेषास्तु सामयिक्यः, औदारिकशरीरिणां त्वाहारपर्याप्तिरेव सामयिकी शेषास्तु प्रत्येकमान्तमौहूर्तिक्यस्ताश्च केषां कियत्य इत्याहुः चतस्रः पञ्च षडपि च क्रमेणैकेन्द्रियविकलसञ्ज्ञिनाम्, विकला द्वित्रिचतुरिन्द्रियाऽसञ्ज्ञिनः, एताश्च पर्याप्तनामकर्मोदयवतामेव सम्पूर्णाः स्युः, अपर्याप्तास्तु ये म्रियन्ते त उच्छ्वासादिपर्याप्तिभिरपर्याप्ताः, न तु शरीरेन्द्रियपर्याप्तिभ्याम्, यतः परभवाऽऽयुर्बद्ध्वा म्रियते तद्बन्धश्च शरीरेन्द्रियपर्याप्त्यभावे न स्यादिति गाथार्थः । । २१६ ।।
-