SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-१९९, २०० २५७ चक्रे० : आज्ञालोपिषु तर्हि का वार्तेत्याहुः - देव० : आज्ञाविरहितेषु तर्हि का वार्तेत्याह - इयरेसु वि य पओसो नो कायव्वो भवढिई एसा । नवरं विवज्जणिज्जा विहिणा सय मग्गनिरएणं ।।१९९।। चक्रे० : इतरेष्वप्याज्ञाविकलेष्वपि प्रद्वेषो मत्सरो न कर्त्तव्यः, भवस्थितिरेषा कर्मवैचित्र्याज्जघन्यमध्यमोत्तमजन्तुभिर्भाव्यमिति चिन्त्यम् । नवरं विवर्जनीया आलापाद्यैविधिना सूत्रनीत्या । सदा मार्गनिरतेन सिद्धान्तोक्तनीतिवर्तिना।।१९९ ।। देव० : इतरेष्वप्याज्ञाविकलेषु प्रद्वेषो मत्सरो न कर्त्तव्यः, यतो भवस्थितिरेषा यद्विचित्रकर्मपरिणतेरेव जघन्यमध्यमोत्तमैर्जन्तुभिर्भाव्यमिति । नवरं केवलं विवर्जनीया आलापादिभिर्विधिना सूत्रनीत्या सदा मार्गनिरतेन समयोक्तनीतिवर्तिनेति गाथार्थः ।।१९९।। * उपदेशपदे-८४० * इयरेसुंपि य पओसो णो कायव्वो भवट्ठिई एसा । णवरं विवज्जणिज्जा विहिणा सइ मग्गणिरएण ।। इतरेष्वपि जिनवचनप्रतिकूलाऽनुष्ठानेषु समुपस्थितदुर्गतिपातफलमोहाद्यशुभकर्मविपाकेषु लोकोत्तरभिन्नेषु जन्तुषु प्रद्वेषो मत्सरस्तद्दर्शने तत्कथायां वाऽक्षमारूपो नो नैव कर्तव्यः । तर्हि किं कर्तव्यमित्याशङ्क्याह-भवस्थितिरेषा, यतः कर्मगुरवोऽद्याप्यकल्याणिनो न जिनधर्माचरणं प्रति प्रहपरिणामा जायन्त इति चिन्तनीयम्। तथा, नवरं केवलं विवर्जनीया आलापसंलापविश्रम्भादिभिः परिहरणीया विधिना विविक्तग्रामनगरवसत्यादिवासरूपेण सदा सर्वकालं मार्गनिरतेन सम्यग्दर्शनादिमोक्षमार्गस्थितेन साधुना श्रावकेण च । अन्यथा तदालापसंभाषादिना संसर्गकरणे कुष्ठज्वररोगोपहतसंसर्ग इव तत्तद्दोषसञ्चारादिहलोकपरलोकयोरनर्थावाप्तिरेव । अत एवोक्तम् - सीहगुहं वग्घगुहं उदयं च पलित्तयं च सो पविसे । असिवं ओमोयरियं दुस्सीलजणप्पिओ जो उ ।। इति ।।८४० ।। चक्रे० : अत्रैव विशेषमाहुः - देव० : अत्रैव विशेषमाह - अग्गीयादाइन्ने खित्ते अन्नत्थ ठिईअभावंमि । भावाणुवघायणवत्तणाए तेसिं तु वसियव्वं ।।२०० ।। १. ठिइ A.P.K २. वत्तणाइ P.K
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy