________________
४- साधुतत्त्वम् गा- १८५, १८६
चक्रे० : एवं चारित्रिणं व्यवस्थाप्य साम्यविशुद्धं तस्यैव चित्तं नमस्कुर्वते - देव० : एवं चारित्रिणं व्यवस्थाप्य सामायिकोत्कर्षमाविर्भावयंस्तस्यैव चित्तं नमस्कुरुते .
लाहालाह-सुहासुह-जीवियमरण- ठिईपयाणेसु
I
हरिसविसाय विमुक्कं नमामि चित्तं चरित्तीणं । । १८५ । ।
चक्रे० : प्रकटार्था । । १८५ । ।
देव० : उत्तानार्था, नवरं हर्षः प्रमोदः स च लाभादिषु, विषादो दैन्यं स चालाभादिषु, ताभ्यां विमुक्तम्, तथा नमहेति विवक्षिते कवेरुक्तगुणगुरुभक्तिपारवश्याद् नमामीत्यायातमिति । । १८५ । ।
चक्रे० : साम्यमेव शिष्यायोपदिशन्ति -
देव० : हर्षविषादविमुक्ततामेवोपदेशद्वारेण दृढयन्नाह
-
तथा
२३९
वंदिज्जंतो हरिसं निंदिज्जंतो करिज्ज न विसायं ।
न हु नमियनिंदियाणं सुगई कुगई च बिंति जिणा । । १८६ । ।
चक्रे० : स्पष्टा ।।१८६।।
देव० : वन्द्यमानो नमस्यमानो जनैरिति शेषः, हर्षं न कुर्यादितीहापि योगः । निन्द्यमानो हील्यमानः कुर्यान्नं विषादम्, यदाह
वंदिज्जमाणा न समुक्कसंति हीलिज्जमाणा न समुज्जलंति ।
दंतेण चित्तेण चरंति लोए मुणी समुग्धाइयरागदोसा ।। [ आव. नि० ८६६ ] किमिति ? यतो हुरेवकारार्थो नैव नतनिन्दितानां यथासङ्ख्यं सुगतिं मोक्षादिकाम्, कुगतिं वा नरकादिकां ब्रुवते जिनास्तीर्थकृतस्तयोः स्वकृतसदसदनुष्ठानमूलत्वादिति गाथार्थः । । १८६ ।। * उपदेशमाला पुष्पमालायाम् - २०८ *
वंदिज्जंतो हरिसं निंदिज्जतो करिज्ज न विसायं । न हि नमियनिंदियाणं सुगई कुगई च बिंति जिणा । ।
१. ठिइ T, C. Z ठिय PK २. सामायिकार्थमेवशिष्यायोपदिशन्नाह T, B, C ३. सुगई कुगई व बेंति A