SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २२८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : दुष्प्रसभो दुष्प्रसभनामाऽऽचार्योऽन्ते यस्य तत्तथा, तद्गुणसंविज्ञानोऽयं बहुव्रीहिः । चरणं चारित्रं यद्यस्माद् भणितं भगवता श्रीमहावीरतीर्थकृतेहास्मिन् भरतनाम्नि क्षेत्रे, यदवाचि - तित्थवोच्छेयकाले दुप्पसभो नाम अणगारो । तंमि कालगए चरित्तं तित्थं च वोच्छिज्जिहि ।। [ ] इति । तस्मादपेर्गम्यमानत्वादाज्ञायुक्तानामप्यधुना दुःषमायां चरणं न भवतीत्येवंरूपा प्रतिपत्तिामोहो मूढतेति गाथार्थः ।।१७१ ।। __ * उपदेशपदे-८०९ * दुप्पसहंतं चरणं भणियं जं भगवया इहं खेत्ते । आणाजुत्ताणमिणं ण होंति अहुण त्ति वामोहो ।। दुष्प्रसभान्तं दुष्षमापर्यन्तभागभाविदुष्प्रसभनामकमुनिपुङ्गवपर्यवसानं गङ्गाप्रवाहवदव्यवच्छिन्नं चरणं भणितं यद्यस्माद् भगवतेह क्षेत्रे । आज्ञायुक्तानां यथासामर्थ्यमाज्ञापरिपालनपरायणानामिदं चारित्रं न भवत्यधुनैष व्यामोहो वर्त्तते, यथाशक्त्याज्ञापरिपालनस्यैव चारित्ररूपत्वात्, तस्य च साम्प्रतमपि भावादिति ।।८०९।। चक्रे० : ननु तथाविधबुद्धिबलाद्यभावात् कथमिदानीं चारित्रसम्भवः ? इत्याहुः - देव० : ननु तथाविधबुद्धिबलाद्यभावतः कथमिदानीं चारित्रसम्भव इत्याह - कालोचियजयणाए मच्छररहियाण उज्जमंताणं । जणजत्तारहियाणं होइ जइत्तं जईण सया।।१७२।। चक्रे० : सुगमा, नवरं जनयात्रारहितानां कृतप्रतिकृतिसुखदुःखचिन्तादिलोकव्यवहारमुक्तानाम्, सदेति यावत्तीर्थम् ।।१७२ ।। देव० : कालोचितयतनया प्राग्वन्मत्सररहितानामुपलक्षणत्वाद्रागद्वेषवर्जितानामुद्यच्छतां प्रतिलेखनादिसामाचारीषु यतमानानाम्, जनयात्रारहितानां कृतप्रतिकृतिसुखदुःखचिन्तादिलोकव्यवहारमुक्तानां यतीनां यतित्वं चारित्रवत्त्वं भवति सदेति दुःषमान्तं यावदन्तररहितमित्यर्थ इति गाथार्थः ।।१७२।। १. कृति T,B.C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy