SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ४- साधुतत्त्वम् गा- १६७, १६८ चक्रे० : अथ निर्ग्रन्थस्नातकापेक्षया हीनगुणान्ां बकुशकुशीलानां कथमित्थं प्रतिपत्तिरित्याहुःदेव० : अथ स्नातकाद्यपेक्षया हीनगुणानामन्येषां कथमित्थं प्रतिपत्तिरित्याह पलए महागुणाणं हवंति सेवारिहा लहुगुणा वि । अत्थमिए दिणना अहिलसइ जणो पईवंपि । । १६७ ।। चक्रे० : पाठसिद्धा, नवरं प्रलय अभावे ।। १६७ ।। देव० : स्पष्टार्था, नवरं प्रलयेऽभावे महागुणानां स्नातकादीनां लघवः शबलत्वकषायकलुषितत्वाभ्यां गुणाश्चारित्रगुणा येषां ते तथा, यतोऽस्तमिते दिननाथे सवितरि प्रदीपमप्यभिलषति जनस्तेनापि तमसि घटघटीसरावोदञ्चनादि पदार्थावलोकनेन स्वार्थसिद्धेरिति । । १६७ ।। चक्रे० : आगमोऽप्येवमेव व्यवस्थितस्तथाहि देव० : यस्मादागमोऽप्येवमेव व्यवस्थितस्तथाहि - २२५ 1 सम्मत्तनाणचरणाणुवाइमाणाणुगं च जं जत्थ । जिणपत्रत्तं भत्तीए पूयए तं तहाभावं । । १६८ । चक्रे० : सम्यक्त्वज्ञानचरणाऽनुपातिनं साक्षादागमाऽनुक्तमप्याज्ञानुगं जिनोक्तानुसारिणं यं भावं गुणविशेषं यत्र पुरुषे पश्येदिति शेषः । शेषगुणाऽभावेऽपि तं जिनप्रज्ञप्तमिति मनसि कृत्वा भक्त्या बहुमानतस्तथा तेन प्रकारेण गुणविशेषाऽनुमानेन पूजयेत् सत्कारयेदित्यर्थः । । १६८ ।। देव० : सम्यक्त्वं च ज्ञानं च चरणं च तान्यनुपतत्यनुगच्छतीति तदनुपाती, तं तथाऽऽज्ञानुगं चाप्तोपदेशानुसारि, इह च साक्षादागमानुक्तमपि यत्किञ्चित्सम्यक्त्वाद्यनुपाति स्यादिति तस्य पृथगुपन्यासोऽयम्, यत्र पुरुषे पश्येदिति शेषः । तं भावं पर्यायविशेषं गुणाभावेऽपि जिनप्रज्ञप्तमितिकृत्वा भक्त्या बहुमानतस्तथा सम्यक्त्वाद्युचितप्रतिपत्तिप्रकारेण पूजयेत् सत्कारयेदिति गाथार्थः । । १६८ ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy