SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २२२ कषायैः कुशीलः कषायकुशीलोऽयमपीत्थमेव पञ्चधैव, इह गाथाः नाणे दंसणलिंगे जो जुंजइ कोहमाणमाईहिं । सोनाणाइकुसीलो कसायओ होइ विन्नेओ ।। चारित्तंमि कुसीलो कसायओ जो पयच्छई सावं । मणसा कोहाईए निसेवओ होइ अहासुहुमो ।। अहवा वि कसाएहिं नाणाईणि उ विराहए जो उ । सो नाणाइकुसीलो नेओ वक्खाणभेएण ।। [ पञ्चनिर्ग्रन्थीप्र० २५, २६, २७ ] इति । चतुर्थ एव चतुर्थको भवति, निर्गतो ग्रन्थान्मोहनीयकर्माख्यादिति निर्ग्रन्थनामायं च पञ्चधा, १-तत्रोपशान्तमोहाद्धायाः क्षीणमोहच्छद्मस्थाद्धायाश्चान्तर्मुहूर्त्तप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिर्ग्रन्थः, २-शेषेषु त्वप्रथमसमयनिर्ग्रन्थः, ३ एवं निर्ग्रन्थाद्धायाश्चरमसमये चरमसमयनिर्ग्रन्थः, ४-शेषेषु त्वितरः, ५ - सामान्येन तु यथासूक्ष्मः, इति पारिभाषिकीसंज्ञा उक्तञ्चेहअंतमुहुत्तपमाणयनिग्गंथद्धाए पढमसमयंमिं । पढमसमयनिग्गंथो अन्नेसु अपढमंसमओ सो ।। दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एमेव तयद्धाए चरमे समयंमि चरमसमओ सो । सेसेसु पुण अचरमो सामन्नेणं अहसुहुमो ।। [पञ्चनिर्ग्रन्थीप्र० ३०, ३१] इति सर्वेषामुत्तमः सर्वोत्तमः पञ्चमकः स्नात इव स्नातको घातिकर्मलक्षणमलपटलक्षालनाद्, अयमपि पञ्चधा १-तत्राक्षपी घातिकर्मचतुष्टयक्षपणानन्तरं तत्क्षपणाभावादिति प्रथमः, २-अशबल एकान्ततो विशुद्धचरणोऽतिचारपङ्काभावादिति द्वितीयः, ३- अकर्मांशो विगतघातिकर्मेति तृतीयः, ४- संशुद्धज्ञानदर्शनधरः केवलज्ञानदर्शनधारीति चतुर्थः, ५-अपरिश्रावी परिश्रवत्याश्रवति कर्म बध्नातीत्येवं शीलो न तथेति, अबन्धको निरुद्धयोग इत्यर्थ इति पञ्चमः स्नातकभेदः । अमीषां च शब्दनयापेक्षया भेदः सम्भाव्यत इह चोत्तरोत्तरेषां विशुद्धिमत्वादित्थं क्रमः पुलाकादीनाम्, अमीषां च वेदादि ३५ द्वारविचार: प्रज्ञप्तिपञ्चविंशतितमशतषष्ठोद्देशकादवसेय इति वृत्तार्थः । । १६३ । । * प्रवचनसारोद्धारे- ७१९ * इदानीं 'निग्गंथ 'त्ति त्रिनवतं द्वारमाह - पंच नियंठा भणिया पुलाय बउसा कुसील निग्गंथा । होइ सिणाओ य तहा एक्केक्को सो भवे दुविहो ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy