SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २०६ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम चक्रे० : स्पष्टा, नवरं पञ्चमहाव्रतादीनामष्टादशानामपि स्वयंकरणाऽन्यकारणतो द्वैगुण्येन षट्त्रिंशद्गुणो गुरुर्भवतीत्यर्थः ।।१४७ ।। देव० : सुगमा, नवरं पञ्चमहाव्रतानि, पञ्चाऽऽचाराः, पञ्च समितयस्तिस्रो गुप्तय इत्यष्टादशपदानि । अमीषां स्पर्शनपालनभेदद्वैविध्यात् षट्त्रिंशदेतावद्गुणो गुरुर्भवतीति । तत्र स्पर्शनं विधिना गुरोः पुरः प्रतिपत्तिः, पालनमुपयोगतः प्रतिजागरणमिह च स्थितकल्पादीनां यथासम्भवं सम्यगासेवनपरिज्ञानप्ररूपणपरिहारादिभिः सूरिगुणत्वमवसेयमिति गाथार्थः ।।१४७ ।। चक्रे० : सम्प्रत्यनुयोगप्रवर्त्तनमाश्रित्य गुरोर्गुणषट्त्रिंशिकां गाथाचतुष्टयेनाहुः - देव० : सम्प्रत्यनुयोगप्रवर्तनमाश्रित्य तस्यैव गुरोर्गुणषट्त्रिंशिकां विवक्षुर्गाथाचतुष्टयमाह - देस-कुल-जाइ-रूवी संघयणी धिईजुओ अणासंसी । अविकत्थणो अमायी थिरपरिवाडी गहियवक्को ।।१४८।। जियपरिसो जियनिद्दो मज्झत्थो देस-काल-भावन्नू । आसनलद्धपइभो नाणाविहदेसभासनू ।।१४९।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिनू । आहारण-हेउ-कारण-नयनिउणो गाहणाकुसलो ।।१५०।। ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।।१५१।। चक्रे० : देशकुलजातिरूपाण्यतिशायीनि विद्यन्ते यस्य स तथा । तत्र १-देशो मध्यदेशो जन्मभूमिः, २-कुलमिक्ष्वाक्वादि पैतृकम्, ३-जातिर्मातृसमुत्था, ४-रूपमङ्गोपाङ्गसम्पूर्णता, ५-संहननी विशिष्टसंहननः, स हि वाचनादौ न श्राम्यति, ६-धृतियुक्तः, ७-अनाशंसी श्रोतृभ्यो न वस्त्राद्याऽऽकाङ्क्षी, ८-अविकत्थनोऽबहुभाषी, अनात्मश्लाघापरो वा ९-अमायी, १०-स्थिरा निश्चला परिपाटिः सूत्रार्थवाचना यस्य स तथा, ११-गृहीतं वाक्यं येन स तथाऽवधारणावान्, यद्वा गृहीतं वाक्यं यस्य स आदेयवचनः । १. पञ्चमहाव्रतयुक्तः, पञ्चविधाचारपालनोद्युक्तः, पञ्चभिरीर्यादिचेष्टाभिः समितः पञ्चसमितः, त्रिभिर्मनःप्रभृतिभिर्गुप्तः षट्त्रिंशद्गुणैः उक्तनीत्या गुरुर्भवतीति गाथार्थः T,B,C २. धीजुओ P, K, ३. अमाई P.K,Z
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy