SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ४- साधुतत्त्वम् गा - १४२ गणिसंपदस्तावदष्टाष्टसंख्याकास्ताः प्रत्येकं चतुर्विधा इति द्वात्रिंशत्, तेषु द्वात्रिंशद्गणिसंपद्भेदेषु नित्यमायुक्तः, तथा चतुर्विधविनयप्रवृत्तः, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति संक्षेपार्थः । विस्तरार्थस्त्वयम्१- आचारसंपत्, २- श्रुतसंपत्, ३ - शरीरसंपत्, ४-वचनसंपत्, ५-वाचनासंपत्, ६ - मतिसंपत्, ७9- प्रयोगमतिसंपत्, ८ - संग्रहपरिज्ञासंपत्, इत्येता अष्टौ गणिसंपदः । तत्र चाचारसंपञ्च्चतुर्धा- १ - चरणसप्ततियुक्तता, २- निर्मदता, ३ अनियतविहारिता, ४-अचञ्चलेन्द्रियत्वं चेति । तथा श्रुतसंपञ्च्चतुर्धा - १- युगप्रधानागमज्ञता, २- परिचितसूत्रार्थता, ३ - उत्सर्गादिवेदित्वम्, ४- उदात्तादिपटुवर्णोच्चारित्वम्। तथा शरीरसंपच्चतुर्धा - १- समचतुरस्रसंस्थानता, २- संपूर्णाङ्गोपाङ्गता, ४- तपः परीषहादेः सहिष्णुता चेति । १९३ तथा वचनसंपच्चतुर्धा - १ - अनाहतप्रतिभात्वम्, २- मधुरवाक्यता, ३- निर्विकारवचनता, ४- स्फुटवचनता चेति । ३-अविकलेन्द्रियत्वम्, तथा वाचनासंपच्चतुर्धा - १ - योग्यायोग्यपात्रज्ञता, २ - पूर्वस्मिन् सूत्रार्थजाते परिणतेऽपरसूत्रार्थदानम्, ३-सूत्रं प्रति निर्यापणमुत्साहनम् ४-अर्थं प्रति निर्वाहित्वं चेति । तथा मतिसंपञ्चतुर्धा- १ - अवग्रहोऽव्यक्तग्रहणम्, २-इहा विमर्शः, ३- अपायो निश्चयः, ४-धारणा अविस्मारणं चेति । वा २- पुरुषपरिज्ञानम्, प्रयोगमतिर्वादबुद्धिः, साऽपि चतुर्द्धा- १-स्वशक्तिपरिज्ञानम्, ३-स्वपरानुकूलक्षेत्रपरिज्ञानम्, ४- स्वपरानुकूलराजादिवस्तुविज्ञानं चेति । संग्रहपरिज्ञासंपञ्च्चतुर्धा- १ - गणविहारयोग्यक्षेत्रादिपरीक्षणम्, २ - भद्रकादीनामुपदेशतो गणचिन्तादौ स्थिरीकरणम्, ३-स्वाध्यायाङ्गानां पुस्तकादीनां संगच्छनम्, ४- तपोऽनुष्ठानादौ शैक्षकादीनां यद्यथायोग्यकृत्यज्ञता चेति । एवं गणिसंपद्भेदा द्वात्रिंशदिति । तथाऽऽचारश्रुतविक्षेपदोषप्रतिघातभेदभिन्नत्वाद् विनयोऽपि चतुर्धा । १ - तत्राचारविनयः स्वस्य परस्य संयमतपोगणप्रतिमाविहारादिसामाचारीसाधनलक्षणः, २- श्रुतविनयः सूत्रार्थोभयभावरहस्यानां दानग्रहणप्रेरणोपबृंहणादिभिः, ३ - विक्षेपविनयो मिथ्यात्वतो गार्हस्थ्यतः प्रमादाद्वा विक्षिप्य तदुत्तरभावेषु स्थापनमिति, ४- तद्दोषप्रतिघातविनयो विषयकषायादिदोषप्रतिघातनेनेति I एतदर्थसूचिकाः पूर्वर्षिप्रणीतगाथाश्चात्र 14 'आयार- सुय- सरीरे, वयणे - वायण - मई-पओगमई । एएसु संपया खलु अट्ठमिया संगहपरिण्णा ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy