SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १७८ रणम् - सम्यक्त्वप्रकरणम चक्रे० : अथ वस्त्रशुद्धिमाहुः - देव० : अथ क्रमप्राप्तां वस्त्रशुद्धिमाह - जन्न तयट्ठा कीयं नेय वुयं नेय गहियमन्त्रेणं । आहडपामिछं वज्जिऊण तं कप्पए वत्थं ।।१३४ ।। चक्रे० : यन्न तदर्थं प्रस्तावात् साधुनिमित्तं क्रीतं नैव व्यूतम्, नैवान्येषां पार्वाद् वस्त्राऽन्तरेण परावृत्य बलादाऽऽच्छिद्य वा गृहीतं तद्वस्त्रं कल्पते, आहतं प्रामित्यं वर्जयित्वा । इह च पिण्डवदुद्गमोत्पादनैषणादयोऽपि दोषा यथासम्भवं ज्ञेयाः, यत्तु क्रीतादिदोषभणनमात्रं तद्वाहुल्येनाऽमीषामेव सम्भवात् ।।१३४।। देव० : यन्न तदर्थं प्रस्तावात्साधुनिमित्तं क्रीतं मूल्येन गृहीतम्, नैव व्यूतमातानवितानादितन्तुक्रियया निर्वर्तितम् । एकारः प्राकृतप्रभवो न च गृहीतमन्येन वस्त्वन्तरेण परिवृत्येत्यर्थः, पञ्चम्यर्थे वा तृतीया, ततश्चान्यस्माद् भृत्यादेराच्छिद्येत्यर्थः, साध्वर्थमितीहापि गम्यं, तद्वस्त्रं कल्पत इति योगः । प्रस्तावाद्यतीनां किं कृत्वा ? वर्जयित्वा, किम् ? आहतमपमित्यं च विशेषणोभयपदकर्मधारयश्चात्र, इह च पिण्डवदुद्गमोत्पादनैषणादयोऽपि दोषा यथासम्भवमवसेयाः, यत्तु क्रीतादिदोषभणनं तद्वाहुल्येनामीषां सम्भवात् । इह मूलोत्तरगुणविभागश्चैवम्-तणविणणसंजयट्ठा मूलगुणा उत्तरा य पाणसयणत्ति । पूर्वार्द्धम्, अस्य व्याख्या - तननवितननादयो मूलगुणा अविशोधिकोटिः, पानसज्जानादयश्चोत्तरगुणा विशोधिकोटिरिति । अत्र तानवितानयोरसावद्यत्वादुत्तरगुणत्वं पानसज्जनयोश्च सावद्यत्वान्मूलगुणत्वं युक्तमिति परः । आचार्य आह - अत्तट्ठियतंतूहिं समण? तओ अपाइयतुओ य । किं सो न होइ कम्मं फासूणवि पज्जिओ जो उ ।। फासूणवित्ति स्वार्थविहितेनापीत्यर्थः । जइपज्जणं तु कम्मं इयरमकम्मं सकप्पऊ धोउ । अह धोउवि न कप्पइ तणणं विणणं च तो कम्मत्ति ।। [ ] इत्थं मूलोत्तरगुणशुद्धमौर्णिककार्पासिकादिभेदभिन्नं यद्वस्त्रं दायकेनोपढौकितं भवति, तद् द्वयोरप्यन्तयोर्गृहीत्वा सर्वतो निरीक्षणीयम्, मा तत्र गृहिणां मणिर्वा सुवर्णं वान्यद्वा रूपकादिद्रव्यं १. गहियमन्नेसिं 'चक्रे' टीकानुसारेण, गहियमन्नेण T.C.P.K
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy