SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् देव० : नन्वाधाकर्मभोजिनः पूर्वमाज्ञाभङ्गः प्रतिपादितः, साम्प्रतं पुनर्यतनावतस्तदेवानुज्ञायत इति कथं न व्यभिचरतीत्याह १७२ उस्सग्गेण निसिद्धाणि जाणि दव्वाणि संथरे जइणो । कारणजाए जाए अववाए ताणि कप्पंति । । १३० ।। चक्रे० : स्पष्टा, नवरं कारणजाते ग्लानत्वादिकारणसमूहे । । १३० ।। देव० : उत्सर्गः सामान्योक्तो विधिस्तेन निषिद्धानि निवारितानि यानि द्रव्याणि सचेतनाचेतनादीनि संस्तरे द्रव्यापदादिविरहे यतेः साधोस्तानि, किं कारणजाते द्रव्यापदादिहेतुसमूहे जाते समुत्पन्ने सत्यपवादे द्वितीयपदे कल्पन्ते संयमोपकाराय प्रभवन्ति । तदयमभिप्रायः - पूर्वसूत्राण्युत्सर्गविषयाण्येतत्पुनरपवादविषयमिति भिन्नविषयत्वान्न विरोध इति गाथार्थः।।१३०।। * बृहत्कल्पभाष्ये-३३२७ * अथ किं पुनरनयोः स्वस्थानम् ? इत्याह - उस्सग्गेण निसिद्धाइँ जाइँ दव्वाइँ संथरे मुणिणो । कारणजाते जाते सव्वाणि वि ताणि कप्पंति ।। अववादट्ठाणे पत्ते उत्सर्गेण संस्तरणमाश्रित्य यानि द्रव्याणि प्रलम्बादीनि मुनेः संयतस्य प्रतिषिद्धानि तान्येव कारणजाते विशुद्धालम्बनप्रकारे जाते समुत्पन्ने सति सर्वाण्यपि कल्पन्ते । । ३३२७ ।। * निशीथसूत्रे - ५ - ५२४५ * उस्सग्गेण णिसिद्धाणि जाणि दव्वाणि संथरे मुणिणो । कारणजाए जाते सव्वाणि वि ताणि कप्पंति ।। जाणि संथरमाणस्य उस्सग्गेण णिसिद्धाणि ताणि चेव दव्वाणि अववायकारणजाते, 'जाय 'सद्दो प्रकारवाची बितिओ 'जाय' सद्दो उप्पण्णवाची, अन्यतमे कारणप्रकार उत्पन्न इत्यर्थः । जाणि उस्सग्गे पडिसिद्धाणि उप्पण्णे कारणे सव्वाणि वि ताणि कप्पंति ण दोसो ।।५२४५ ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy