________________
१७०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम
* बृहत्कल्पभाष्ये-१६०८ * अपि च इदमपि ते श्राद्धा ज्ञापनीयाः -
संथरणम्मि असुद्धं दोण्ह वि गिण्हंतदितयाणऽहियं ।
आउरदिटुंतेणं तं चेव हियं असंथरणे ।। संस्तरणं नाम प्रासुकमेषणीयं चाशनादि पर्याप्तं प्राप्यते न च किमपि ग्लानत्वं विद्यते तत्राशुद्धमप्रासुकमनेषणीयं च गृह्णतो ददतश्च द्वयोरप्यहितमपथ्यम्, गृह्णतः संयमबाधाविधायित्वाद् ददतस्तु भवान्तरे स्वल्पायुर्निबन्धनकर्मोपार्जनात् । तदेवाशुद्धमसंस्तरणेऽनिर्वाहे दीयमानं गृह्यमाणं च हितं पथ्यं भवति । आह - कथं तदेव कल्प्यं तदेव चाकल्प्यं भवितुमर्हति ? इति उच्यते-आतुरो रोगी तस्य दृष्टान्तेनेदं मन्तव्यम्, यथा हि रोगिणः कामप्यवस्थामाश्रित्यान्नौषधादिकमपथ्यं भवति, काञ्चित् पुनः समाश्रित्य तदेव पथ्यम्, एवमिहापि भावनीयम् ।।१६०८।।
* निशीथसूत्रे-१६५० * संथरणम्मि असुद्धं दोण्ह वि गेण्हंतदेंतयाणऽहितं ।
__ आउरदिटुंतेणं तं चेव हितं असंथरणे ।। फासुएसणिज्जा असणादिया पज्जता जत्थ लब्भंति जत्थ हट्टो य तं संथरंतम्मि संथरे, अफासुयं देंतगेण्हंताण अहियं भवति । तं चेव अफासुयं असंथरे हितं भवति । चोदग आह- 'तदेव कल्पं तदेव चाकल्पम्, कथमेतत् ?'
आचार्य आह-आतुरदृष्टान्तसामर्थ्यात्, निरुजस्य विषादिनौषधेन किं प्रयोजनम्, सरुजस्य तदेव विषादिकं पथ्यं भवति ।।१६५०।।
चक्रे० : अनिर्वाहेऽनेषणीयपरिभोगोऽपि हितायेत्युक्तम्, तत्किं यथा तथा ? नेत्याहुः -
देव० : अनिर्वाहेऽनेषणीयपरिभोगोऽपि हितायेति प्रतिपादितम्, तत्कं यथाकथञ्चिदेव नेत्याह -
फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं ।
पूईए मीसएण य आहाकम्मेण जयणाए।।१२९ ।। चक्रे० : प्रासुकैः प्रगतासुभिरेषणीयैश्चाधाकादिदोषरहितैः, तदलाभे प्रासुकावभाषितैः, अवभाषितं समयभाषया याचितम्, तदप्राप्तौ क्रीतैः, ततः पूतिभिः पूतिकर्मदोषदुष्टैः, ततोऽपि मिर्मिश्रजातदोषदूषितैः, ततोऽप्याधाकर्मभिरन्नाद्यैः शरीरधारणा कार्येति शेषः ।