SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १६६ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम * पञ्चाशके-१३/२६, पिण्डविशुद्धिप्रकरणे-७७ * अथ तानेव नामतो दर्शयन्नाह - संकिय मक्खिय णिक्खित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।। शङ्कितं सम्भाविताधाकर्मादिदोषं भक्तादि । इह च प्रथमैकवचनान्तता सर्वत्र दृश्या । तथा दोषवतो निर्देशेऽपि दोषदोषवतोरभेदात् शङ्कारूप एषणादोष उक्तोऽवसेयः, तस्यैव विवक्षितत्वात्, एवं सर्वत्र। प्रक्षितमारूषितम्, निक्षिप्तं न्यस्तम्, पिहितं स्थगितम्, संहतमन्यत्र क्षिप्तम्, दायको दाता, उन्मित्रं मिश्रीकृतम्, अपरिणतं सचेतनम्, लिप्तं खरण्टितम्, छर्दितं परिशाटितमित्येवमेत एषणादोषाः पिण्डग्रहणदूषणानि दश भवन्ति स्युः । इति गाथासमासार्थः ।।२६।। चक्रे० : एतद्दोषविशुद्धस्यैव पिण्डस्य ग्राह्यताम्, तद्विशुद्धिविषये विशेषं चाहुः - देव० : उक्तदोषविशुद्धस्यैव पिण्डस्य ग्राह्यताम्, तद्विशुद्धिविषये विशेषं चाह - एयद्दोसविमुक्को जईण पिंडो जिणेहिं ऽणुनाओ । सेसकिरियाठियाणं एसो पुण तत्तओ नेओ।।१२५ ।। चक्रे० : एतैरुक्तैर्दोषैर्विमुक्तो यतीनां पिण्डो जिनैरनुज्ञातः । पिण्डशुद्धरुत्तरगुणत्वाच्छेषक्रियास्थितानां मूलगुणव्यापारानुष्ठायिनां पुनरेष तत्त्वतः परमार्थेन ज्ञेयः, मूलाऽभाव उत्तरस्याऽकिञ्चित्करत्वात् ।।१२५ ।। देव० : एतद्दोषविमुक्त उक्तस्वरूपद्विचत्वारिंशदूषणरहितो यतीनां पिण्डो भक्तादिर्जिनैरनुज्ञातो ग्राह्यतयेति प्रक्रमः, एष पुनर्विशुद्धः पिण्डस्तत्त्वतः परमार्थवृत्त्या शेषक्रियास्थितानां पिण्डविशुद्ध्यपेक्षया याः शेषक्रियाः स्वाध्यायप्रत्युपेक्षणादिकास्तासु ये स्थिता आश्रितास्ते तथा तेषां ज्ञेयः, न तु तद्विकलानामुक्तदोषपरिहारमात्रवताम्, मूलाभाव उत्तरस्याकिञ्चित्करत्वादिति भावः, इति गाथार्थः ।।१२५ ।। * विंशतिविंशिकायाम्-१३/८ * अनन्तरोक्तद्वाचत्वारिंशद्दोषपरिशुद्धपिण्डस्य भोजनविधिमाह - एयद्दोसविमुक्को जईण पिंडो जिणेणऽणुनाओ । संजोयणाइरहिओ भोगो वि इमस्स कारणओ ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy