SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-११७, ११८ १५१ चक्रे० : अकल्पस्थापनाकल्पमेव विवृण्वन्ति - देव० : इह शेषदोषाणां सुज्ञानत्वादकल्पस्थापनाकल्पदोषे तु सति शेषदोषाणामपि सम्भवात्सप्रतिपक्षतद्विषयविभागस्य च दुर्ज्ञानत्वात्तमेव विवृणोति - पिंडं सेज्जं वत्थं पत्तं चारित्तरक्खणट्ठाए । अकप्पं वज्जिज्जा गिण्हिज्जा कप्पियं साहू।।११७ ।। चक्रे० : सुगमा, नवरं शय्यां वसतिम्, अकल्पमाधाकर्मादिदोषदुष्टम्।।११७ । । देव० : पिण्डं समयपरिभाषया चतुर्विधमाहारम्, शय्यां वसतिम्, वस्त्रमन्तरकल्पादि, पात्रमलाब्वादि, अकल्पमकल्पनीयं वर्जयेत्परिहरेत् । कस्मै ? चारित्ररक्षणार्थाय संयमपरिपालनप्रयोजनाय, तथा गृह्णीयादुपाददीत श्रुतत्वात्पिण्डाद्येव, किंविशिष्टम् ? कल्पिकमाधाकर्मादिदोषरहितं साधुरिति गाथार्थः ।।११७ ।। * दशवैकालिकनियुक्तौ-६/४७ * एतदेव स्पष्टयति - पिंडं सिज्जं च वत्थं च चउत्थं पायमेव य । अकप्पिअं न इच्छिज्जा पडिगाहिज्ज कप्पिउं ।। "पिंडंति सूत्रं, पिण्डं शय्यां च वस्त्रं च चतुर्थं पात्रमेव च, एतत्स्वरूपं प्रकटार्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात् कल्पिकं यथोचितमिति सूत्रार्थः ।।४७।। चक्रे० : इह च पिण्डादीनामाधाकर्मादिदोषैरकल्पिकत्वमिति तान् बिभणिषवः प्रस्तावनामाहुः - देव० : इह च पिण्डादीनामाधाकर्मादिदोषैरकल्पिकत्वमिति तान् बिभणिषुः प्रस्तावनामाह जीवा सुहेसिणो तं सिमि तं संजमेण सो देहे । सो पिंडेण सदोसो सो पडिकुट्ठो इमे ते य।।११८ ।। चक्रे० : जीवाः सुखैषिणस्तत्सुखमैकान्तिकं शिवे, तच्छिवं संयमेन, स संयमो देहे, स देहः पिण्डेन वर्तते, स पिण्डः सदोष आधाकर्मादिदोषदुष्टः प्रतिक्रुष्टो निषिद्धः सर्वजिनैः, ते च इमे वक्ष्यमाणा इति गाथार्थः ।।११८ ।। १. दुर्जेयत्वात्तमेव T,B,C २. सिज्जं P.K, ३. वजेज्जा गिण्हेज्जा A.Z ४. कल्पितम् A
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy