________________
३-मार्गतत्त्वम् गा-१०९, ११०
सद्दर्शनं तु सम्यग्दर्शनं पुनस्तत्र वस्तुनि रुचिः श्रद्धा, 'तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्' [ तत्त्वार्थ-१-२] इति वचनात्, अन्यथा चेयं ज्ञानात्, आवरणभेदेन क्वचित् तद्भावेऽप्यभावादिति । तथा 'सच्चरणं' सम्यक्चारित्रम्, अनुष्ठानं क्रियारूपं विधि- प्रतिषेधानुगं विधि प्रतिषेधावनुगच्छति, आगमानुसारीत्यर्थः । तत्र इति वस्तुन्येव, अस्य महाव्रतरूपत्वात् तेषां च बाह्यविषयत्वात्, 'पढमम्मि सव्वजीवा' [ आव. नि. ७९१] इति वचनात्, अन्यथा अस्याभाव इति भावनीयम् । क्रमश्चायमेषाम्, निश्चयत इत्थमेव भावात् । तथाहि-नाज्ञाते श्रद्धा, अश्राद्धस्य वाऽनुष्ठानमिति । उक्तं च- 'यदि जानात्युत्पन्नरुचिस्ततो दोषान्निवर्तते ।' अन्यत्र तु सम्यग्दर्शनोपन्यास आदौ व्यवहारमतेन कर्मवैचित्र्यात् तथाभावतोऽविरुद्ध एव I इति गाथार्थः ।।३।।
१४१
चक्रे० : सच्चरणमनुष्ठानमित्युक्तमधुना सुयतिसुश्रावकविषयितया तदेव दर्शयन्ति देव० : सच्चरणमनुष्ठानमित्युक्तमधुना सुयतिसुश्रावकविषयितया तदेव दर्शयन्नाह जीव म वहहु म अलियं जंपहु म अप्पं अप्पहु कंदप्पहु । नरहु म हरहु म करहु परिग्गहु एहु मग्गु सग्गहु अपवग्गहु । । १०९ । । पूया जिणिदेसु रई वएस जैत्तो य सामाइयपोसहेसु ।
दाणं सुपत्ते सवणं सुतित्थे सुसाहुसेवा सिवलोयमग्गो । । । ११० । । चक्रे० : आद्या चतुष्पदी सुगमा, नवरमनया प्राणिवधविरमणादीनि पञ्चमहाव्रतान्युक्तानि व्यतिक्रमभणनं तु बन्धाऽऽनुलोम्यात् ।
-
पूजा जिनेन्द्रेषु, रतिर्व्रतेषु स्थूलप्राणातिपातविरमणादिषु यत्नश्च सामायिकपौषधयोः, अनयोश्च पृथगादानं सावद्यपरिहारेण प्रधानमोक्षाङ्गत्वात्, दानं सुपात्रे ज्ञानाद्याऽऽधारे साध्वादो, अनेनाऽपात्रे दानमनर्थफलमेवेति सूचयति । यदुक्तं प्रज्ञप्त्याम्
समणोवासगस्स णं भंते ! तहारूवं असंजय - अविरय - अप्पडिहय-पच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाण- खाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! एगंत सो पावेकम्मे कज्जइ, नत्थि से कावि निज्जरा कज्जइ' त्ति ।
१. जीव म वहह म अलियं जंपह म कंदप्पह । नरह म हरह म करह परिग्गह एहु मग्गु सग्गह अपवग्गह T,C जीव म वहह म अलियं जंपह म अप्पं अप्पह कंदप्पह । नरह म हरह म करह परिग्गह एहु मग्गु सग्गाह अपवग्गाह P.K, २. जुत्तो A, T. C ३. निज्जरत्ति P.K,