SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ३-मार्गतत्त्वम् गा-१०६ १३७ चक्रे० : अथाऽऽगमोक्तामेव संसारमोक्षमार्गसङ्ख्यामाहुः - देव० : भूयोऽपि कुमार्गसन्मार्गी भङ्ग्यन्तरेणाह - गिहिलिंग-कुलिंगिय-दवलिंगिणो तिन्नि हुंति भवमग्गा । सुजइ-सुसावग-संविग्गपक्खिणो तिन्नि मोक्खपहा।।१०६।। चक्रे० : गृहिलिङ्गा गृहस्थाः, कुलिङ्गिनः पाषण्डिनः, द्रव्यलिङ्गिनः पार्श्वस्थादयः, त्रयो भवन्ति भवमार्गाः, द्रव्यलिङ्गिनामप्युभयभ्रष्टत्वाद्भवमार्गतैव । सुयतयः, सुश्रावकाः, संविग्नाः सुसाधवस्तेषां पक्षेण पक्षपातेन चरन्तीति संविग्नपाक्षिका इति त्रयो मोक्षपथाः । ननु पूर्वं मोक्षमार्गद्वैविध्यमेवोक्तमधुना तु त्रैविध्यमिति कथं न विरोधः ? सत्यम्, तृतीयमार्गस्याऽप्रधानत्वादल्पत्वात्कादाचित्कत्वाञ्च तत्र न विवक्षा, अत्र नु संसारमार्गत्रैविध्यप्रस्तावात् तद्भणनमित्यविरोधः, तल्लक्षणं चेदमवसेयम्, तथाहि - संविग्गपक्खियाणं लक्खणमेयं समासओ भणियं । ओसन्न चरणकरणा वि जेण कम्मं विसोहंति ।। सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ होइ य सव्वोमराइणिओ ।। वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेय । अत्तट्ठा न वि दिक्खइ देइ सुसाहूण बोहेउं ।। [उपदेशमाला-५१४,५१५,५१६] इति गाथार्थः ।।१०६।। देव० : गृहमेव लिङ्गं येषां ते गृहलिङ्गा गृहस्था एव, कुत्सितं च संसारकारणत्वात्तल्लिङ्गं च, तद्विद्यते येषां ते कुलिङ्गिकाश्चरकादयः, द्रव्यलिङ्गं भावविकलानां साधुनेपथ्यधरणम्, तद्विद्यते येषां ते द्रव्यलिङ्गिनः पार्श्वस्थादयः, आधार आधेयोपचारात्तदनुष्ठानानि, त्रयस्त्रिसङ्ख्याः किं भवन्ति ? भवमार्गाः संसारपथाः । अथ गृहिलिङ्गकुलिङ्गिनौ भवतां संसारपथौ, रजोहरणमुखवस्त्रिकादिभगवल्लिङ्गधारिणस्तु कथम् ? अत्रोच्यते-सम्यग्ज्ञानादिविकलेन लिङ्गमात्रेण न किञ्चित् त्राणम् । तथा च - १. मुक्खपहा T.C.PK २. भावविकलत्वेनाप्रधानप्रव्रजितादिनेपथ्यधरणलक्षणं विद्यते T.B.C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy