SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ३-मार्गतत्त्वम् गा-८९ तदेवाह * उपदेशमाला पुष्पमालायाम्-२३१ * १२३ चेइयकुलगणसंघे आयरियाणं च पवयणसुए य । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेण ।। चैत्ये जिनप्रतिमाऽऽयतनरूपे कुले विद्याधरकुलादौ, गणे तत्समुदायरूपे सङ्घ साध्वादावाचार्याणां च प्रतीतानां प्रवचने सूत्रार्थोभयरूपे सकलद्वादशाङ्गे श्रुते च केवलसूत्ररूपे, एतेषु सर्वेष्वपि यत् किमपि निर्वर्तनपूजनादिकं कृत्यं तत्तेन साधुना कृतमेव द्रष्टव्यम्, किं कुर्वतेत्याह- तपः संयमयोर्विषय उद्यमं कुर्वता, गृहिणोऽपि हि चारित्रावरणीयकर्मक्षयोपशमाभावात् संयमं कर्तुमशक्ताश्चैत्यनिर्वर्त्तनादिकं कृत्वा कुशलानुबन्धपरम्परया संयमं प्राप्नुवन्ति, ततो मोक्षं साधयन्ति, येन च साधुना सोऽपि मुक्तिनिबन्धरूपः संयमः प्राप्तस्तेन चैत्यनिर्वर्त्तनपूजादिकं कृतमेव द्रष्टव्यम्, तत्फलस्य सिद्धत्वात्, अपरञ्च-संयमवान् उपादेयवाक्यतया गुणदोषज्ञतादिना च प्रत्युत बहूनि शोभनानि च देशनादिद्वारेण चैत्यकुलगणादिकार्याणि करोति, तस्मात् समस्तवस्तुप्रसाधकत्वात् संयम एव यत्नो विधेयः, नान्यत्रेति गाथार्थः ।।२३१।। चक्रे० ० : अथ कलिकालवशसमुल्लसितशिथिलजनाभिप्रायमुद्गीर्य निराकुर्वते देव० : अथ निर्मूलशठजनप्ररूपणामुद्गीर्य निराकुरुते केई भांति भन्न सुहुमवियारो न सावगाण पुरो । तं न जओ अंगाइसु सुव्वइ तव्वन्नणा एवं ।। ८९ । । चक्रे० : केचिद् भवाभिनन्दिनो भणन्ति न भण्यते न कथ्यते सूक्ष्मविचारो द्रव्यभावस्तवाधिकारिविचारणादिरूपः श्रावकाणां पुरः, यतस्ते ज्ञाताऽशेषसमाचाराः शिथिलयतिजनमालोक्य कदाचित्सन्दिग्धधर्माणः स्युरिति तन्न, यतोऽङ्गादिष्वङ्गोपाङ्गादिषु श्रूयते तद्वर्णना एवंप्रकारेण । । ८९ ।। देव० : केचिद् भवाभिनन्दिनो भणन्ति प्रतिपादयन्ति, किमित्याह-न भण्यते न कथ्यते सूक्ष्मविचारो द्रव्यस्तवभावस्तवाधिकारिविचारणादिरूपः, पुरोऽग्रतः, केषाम् ? श्रावकाणाम्, कथम् ? ते हि विदितसकलसमाचाराः कलिकालबलावलुप्तशक्तिकं प्रमादपरवशं यतिजनमवलोक्य मन्दधर्माणो मा भूवन्निति, तदेतन्न, यतोऽङ्गादिष्वङ्गोपाङ्गादिषु श्रूयते तेषां श्रावकाणां वर्णना गुणोत्कीर्तनं स्वरूपकथनमिति यावदेवं वक्ष्यमाणप्रकारेणेति गाथार्थः ।।८९।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy