SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ३-मार्गतत्त्वम् गा-८२ पालकेन वन्दिताः स्मः, आगच्छतस्तस्य मार्गे कृष्णवासुदेवो मिलितः, पालकेनोक्तम् – भो तात! मह्यमश्वं दत्त ? यतः पूर्वं मया स्वामिनो वन्दिताः सन्ति । अथ कृष्णेन स्वामिनो वन्दित्वा पृष्टाः - यूयं पूर्व केन वन्दिताः ? स्वामिनोक्तम् - कया वन्दनया पृच्छसि ? भाववन्दनया द्रव्यवन्दनया वा ? कृष्णनोक्तम्भगवन् । या बहुफला तया पृच्छामि, प्रभुणोक्तम् - भाववन्दना बहुफला, तया च शाम्बकुमारेण वन्दिताः स्मः, द्रव्यवन्दनया च पालकेन वन्दिताः स्मस्तदा संतुष्टेन कृष्णेन शाम्बस्याश्वो दत्तः, पालको भर्त्सितो निष्कासितश्च, अतः सप्तमोऽभव्यः पालको जातः ।।३६।। ___ * संबोधसित्तर्याम्-३७ * ननु द्रव्यस्तवभावस्तवयोः किमयं फले विशेषः ? इत्यत आह - मेरुस्स सरिस्सव य जत्तियमित्तं तु अंतरं होई । दव्वत्थयभावथयाण अंतरं तत्तियं नेयं ।। मेरोः सुवर्णाचलस्य लक्षयोजनप्रमाणस्य सर्षपस्य कदम्बकस्य च यावन्मानं यावत्प्रमाणमन्तरं विभेदो भवति, महत्त्वे मेरोः परा कोटिरणीयस्त्वे सर्षपस्येति भावः । तावत्प्रमाणमन्तरं द्रव्यस्तवभावस्तवयो यम्। भावस्तवे हि षड्जीवनिकायवधासंभवान्मेरुसमानत्वम्, कालादिसामग्र्यां समग्रायां तद्भव एव तदाराधकाः सिद्धिसौधमधिरोहन्तीति । द्रव्यस्तवे च षड्जीवनिकायवधाविनाभूतत्वात्सर्षपसमत्वम्, तदाराधकाश्चाच्युतकल्पमेव यावदुत्कर्षतो यान्ति न परत इति ।।३७ ।। चक्रे० : अथ कुत एतदित्याहुः - देव० : अथ कुत एतदित्याह - उक्कोसं दव्वत्थयं आराहिय जाइ अझुयं जाव । भावत्थएण पावइ अंतमुत्तेण निव्वाणं ।।८२।। चक्रे० : प्रतीतार्था, नवरम् ‘उक्कोसं'ति, अपेर्गम्यमानत्वादुत्कृष्टमपीत्यर्थः ।।८२ ।। देव० : प्रतीतार्था, नवरमपेर्गम्यमानत्वादुत्कर्षमपि तत्रोत्कृष्यत इत्युत्कर्षस्तं पर्यन्तसंलेखनासम्पन्ननिरतिचारद्वादशव्रतपरिपालनलक्षणमुक्तं चात्र-'उववाओ सावगाणं उक्कोसेण अच्चुयं जाव'त्ति तथा 'अंतमुहुत्तेण'त्ति मरुदेवास्वामिनीवदचिन्त्यशक्तित्वाद्भावस्तवस्येति गाथार्थः । ८२।। १. भावत्थयेण TC
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy