________________
१०८
करणम् - सम्यक्त्वप्रकरणम
चक्रे० : तर्हि किं भणितमित्याहुः - देव० : तर्हि किं भणितमित्याह -
एयं भणियं समए इंदेणं साहुजाणणनिमित्तं ।
जक्खगुहाए दारं अन्नमुहं ठावियं तइया।।७४।। चक्रे० : एषा स्पष्टैव, केवलं 'जक्खगुहा' इति, गुहाऽनुरूपत्वाद् गुहा । यक्षस्य व्यन्तरस्य गुहा निवासो यक्षगुहा तस्यास्तदा वसतीकृतायाः, न तु चैत्यस्य ।।७४ ।।
देव० : एतदभिधास्यमानं भणितमुक्तं समय आवश्यकनियुक्तिचूादिरूपे, किम् ? इन्द्रेण सौधर्माधिपेन साधूनामार्यरक्षितशिष्याणां ज्ञापननिमित्तं यक्षगुहाया व्यन्तरनिवासरूपाया द्वारं मुखमन्यस्यां दिशि मुखं यस्य तदन्यमुखं स्थापितं विहितम्, न पुनश्चैत्यस्य, तदा तस्मिन् काले यदा तैस्तस्यां वसतिः कृतेति गाथार्थः ।।७४ ।। चक्रे० : मा भूत् तेषामनुज्ञा, परमाधाकादिदोषरहिते तत्र निवसतां का क्षतिरित्याहुः - देव० : माभूत्तेषामनुज्ञा, परमाधाकर्मादिदोषरहिते तत्र निवसतां का क्षतिरित्याह -
दुग्गंधमलिणवत्थस्स खेलसिंघाणजल्लजुत्तस्स ।
जिणभवणे नो कप्पइ जइणो आसायणाहेऊ ।।७५।। चक्रे० : दुर्गन्धान्यस्नानमलसम्पर्कात्, मलिनानि बाह्यरजःसङ्गाद् वस्त्राणि यस्य स तथा तस्य । खेलसिङ्घाणजल्लयुक्तस्य यतेर्जिनभवने न कल्पते स्थातुमिति गम्यम् । कुतः ? आशातनाहेतोराशातनालक्षणात् कारणादुक्तं च -
दुब्भिगंधमलस्साऽवि तणुरप्पेस ण्हाणिया ।
दुहा वाउवहो वावि तेण ठंति न चेइए ।। [व्यवहारसूत्र-३७५४] स्नानिताऽप्येषा तनुर्दुरभिगन्धस्राविणी किमुताऽस्नानिता । द्विधोर्ध्वमधश्च वायुवहश्चाऽपि, तेन न तिष्ठन्ति न निवसन्ति चैत्ये ।
तिन्नि वा कड्डइ जाव थुईओ तिसिलोइया ।
ताव तत्थ अणुनायं कारणेण परेण वा ।। [व्यवहारसूत्र-३७५५] यावत् तिस्रः स्तुतयस्त्रिश्लोकिकाः ‘सिद्धाणं बुद्धाणं' इत्यादिगाथात्रयरूपाः कर्षति एतावता -