SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १-देवतत्त्वम् गा-५१ * सङ्घाचारभाष्ये-२२ * संप्रति द्विदिस्थितैरपि मूलबिम्बस्य कियत्यवग्रहाद् देवा वन्दनीया इत्याशङ्कायां चतुर्थमवग्रहद्वारं गाथोत्तरार्द्धनाह - नवकर जहन्नु सट्टिकर जिट्ठ मज्झुग्गहो सेसो ।। मूलबिम्बाद् नव हस्ताज्जघन्यो जघन्योऽवग्रहः, जघन्यतोऽप्युच्छ्वासनिश्वासादिनिताशातनापरिहाराय नवहस्तबहिःस्थितैर्देववन्दना कार्या, षष्टिश्च हस्तान् ज्येष्ठ उत्कृष्टोऽवग्रहः, तत्परत उपयोगासम्भवात्, मध्ये मध्यमे शेषो नवकरेभ्य ऊर्ध्वं षष्टेश्चार्वागवग्रहो मूलबिम्बवन्दनास्थानाभ्यन्तरालभूभाग इति । अन्यैः पुनादशभेदोऽयमुक्तः । तथा च पञ्चस्थानकेऽभिहितम् - उक्कोससट्ठि- पंना- चत्ता- तीसा- दसट्ठ- पणदसगं । दस- नव- ति- दु- एग-द्धं जिणुग्गहं बारसविभेयं ।। ति। एतावता चार्धहस्तादारभ्य षष्टिहस्तेभ्यश्चार्वाग् गृहचैत्ये चैत्यगृहे वा यथा जिनबिम्बस्याशातना न भवति तथा यथासमयमवग्रहबहि:स्थितैरमिततेज:खेचरेश्वरवद् देववन्दना कार्येत्युक्तं भवति ।।२२।। चक्रे० : ततश्च - देव० : ततश्च - गुरुदेवुग्गहभूमीए जत्तओ चेव होइ परिभोगो । इट्ठफलसाहगो सइ अणिट्ठफलसाहगो इहरा ।।५१।। चक्रे० : गुरूणां देवस्य चावग्रहभूमौ यत्नत एवाशातनाभीरुतया संलीनाङ्गोपाङ्गत्वलक्षणं प्रयत्नेन भवति परिभोगो वैयावृत्त्य पूजाद्यर्थं निषदनोत्थानचङ्क्रमणादिरूप इष्टफलसाधको निर्वृतिप्रापकः । 'सय'त्ति सदा । इतरथाऽनिष्टफलसाधको दुर्गतिजनकः । अथ देवतत्त्वविचारणायां को नाम गुरोरिह प्रस्तावः ? सत्यमवग्रहसाम्यात्तदवग्रहप्रमाणं चैवम् - आयप्पमाणमित्तो चउद्दिसिं होइ अवग्गहो गुरुणो । अणणुनायस्स सया न कप्पई तत्थ पविसेउं ।। [प्रव.सारो० १२६] ।।५१।। देव० : गुरवो धर्मोपदेशका आचार्यादयो देवश्चार्हस्तेषामवग्रहभूमिस्तस्या यत्नत आशातनाभीरुतया संलीनाङ्गोपाङ्गत्वलक्षणप्रयत्नेन, चेवेत्यवधारणे, परिभोगो वैयावृत्त्यपूजादिकृते निषदनोत्थानचङ्क्रमणादिरूप इष्टफलं निर्वृत्तिप्राप्तिलक्षणम्, तस्य साधको भवतीति योगः १. गुरुदेवोग्गहभूमीए T,C गुरुदेवुग्गहभूमीइ P. K २. सय P. K ३. गुरुर्धर्मोपदेशको देवश्चाहँस्तयोः A
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy