________________
१-देवतत्त्वम् गा-४८, ४९
वस्तूनाम्, ३३-भाण्डागारं कोशम्, ३४-दुष्टासनं मञ्चिकागब्दिकादि, ३५-छाणित्ति छगणस्थापनम्, जलगालनमित्यन्ये, ३६-कप्पड, ३७-दालि, ३८-पप्पड, ३९-वडित्ति प्रतीतानि तद्विस्तारणं ४०-नाशनं भयेष्वाश्रयणम्, ४१-आक्रन्दम्, ४२-विकथे प्रतीते, ४३-सरत्थघडणंति शस्त्रोपकरणघटनम्, चैत्योपकरणघटने तु न दोषः, ४४-तिर्यक्संस्थापनमबद्धचतुष्पदधारणम्, ४५-अग्निसेवनम्, ४६-रन्धने प्रतीते, ४७-परीक्षणं रूप्यकरत्नादेः, ४८-नैषेधिकीभञ्जनम्, ४९-छत्रम्, ५०-उपानत्, ५१-शस्त्रम्, ५२-चामराणि प्रतीतानि, नवरमुपानही चर्ममय्यौ । ५३-मणोणेगंतत्ति चेतसोऽसमाहितत्वम्, ५४-अभ्यञ्जनं तैलाद्यैः, ५५-सचित्तानां पुष्पादीनामत्यागम्, ५६-त्यागमजीवस्य स्वर्णादेः, ५७-दृष्टौ भगवद्दर्शनेऽञ्जलेरबन्धनम् । ५८-एकशाटकोत्तरासङ्गभङ्गं प्रतीतम्, ५९-मुकुटं स्वर्णादिमयम्, ६०-मौलिं शिरसि वासोवेष्टनम्, ६१-शिरःशेखरं पुष्पापीडम्, ६२-हुड्डां प्रसिद्धाम्, ६३-जिंडुहगिड्डियाइरमणंति कन्दुकादिक्रीडाः, ६४-जोहारत्ति लोकस्थित्या मिथःपादपतनादि वन्दनकदानस्यैव विहितत्वात्, ६५-६६-भण्डक्रिया-रेकारौ गतार्थी, ६७-धरणं चौराधमर्णादेः, ६८-रणं शस्त्राशस्त्रि, ६९-विवरणं वालानां व्यक्तम्, केशपरिकर्मोपलक्षणं चैतत्, ७०-पर्यस्तिकां ख्याताम्, परिकरबन्धाधुपलक्षणमिदम्, ७१-पादुकां काष्टादिमयीम्, ७२-पादप्रसारणं व्यक्तम्, मुखप्रसारणाद्युपलक्षणं चैतत्, तेन जृम्भाट्टहासादिसंग्रहः, ७३-पुडपुडित्ति सुविदितम्, ७४-पंकंति पङ्कलिप्तांहिगमनमंहिलग्नपङ्कापनयनं वा, ७५-रजश्चरणरेणुप्रमार्जनम्, रजस्वलागमनमित्यन्ये, ७६-मैथुनं प्रतीतम्, ७७-जूयंति यूकामत्कुणाधुत्सारणम्, ७८-जेमनमशनाहारम्, ७९-युद्धं मल्लादीनाम्, ८०-विज्जत्ति वैद्यकम्, ८१-वाणिज्यं प्रतीतम्, ८२-सिज्जंति शयनम्, ८३-जलं पानाहारम्, ८४-मज्जनं शिरःस्नानम्, एमाइयंति अभक्त्यङ्गानां भूयस्त्वादेवंजातीयाविधयः कति सङ्ख्यायन्ते ? उज्जुउत्ति प्रयतो वर्जयेदिति सर्वत्र योज्यं यथासम्भवम्, विभक्तिलोपपरिणामादिकं प्राकृतत्वादिति वृत्तचतुष्टयार्थः ।।४९।।
* सङ्घाचारभाष्ये-६१ * संप्रति 'दसआसायणचाउत्ति चतुर्विंशं द्वारं व्याचिख्यासुराह -
तंबोल पाण भोयणुपाणह मेहुन्न सुअण निट्ठवणं ।
मुत्तुच्चारं जूअं वज्जे जिणणाहजगईए (मंदिरस्संतो) ।। १-ताम्बूलं पूगपत्रादि चैत्ये नाऽऽस्वादयेद् न चोद्गीर्यात्, एतेन स्वादिमाहारनिषेधः, २-पानं जलादेर्न कार्यम्, हस्तपादमुखाङ्गक्षालनाभ्यङ्गोद्वर्त्तनादेर्वा पानं रक्षणं कार्यम्, कुरुकुचादीनां च, ३-भोजनम्