SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सगो एसा पुण होइ जिणमुद्दा ।। मुत्तासुत्ती मुद्दा जत्थ समा दोऽवि गब्भिया हत्था । ते पुण निलाडदेसे लग्गा अन्ने अलग्गत्ति ।। उभयकरजोडनेन परस्परमध्यप्रविष्टाङ्गुलिभिः कृत्वा पद्मकुड्मलाकाराभ्यां तथोदरस्योपरि कुहणिकया व्यवस्थिताभ्यां योगो-हस्तयोर्योजनविशेषस्तत्प्रधाना मुद्रा, योगमुद्रा इत्येवंस्वरूपा भवतीति गम्यम् ।।१५।। चत्वार्यङ्गुलानि स्वकीयान्येव पुरतोऽग्रतस्तथोनानि किञ्चिञ्चत्वार्यवाङ्गुलानि यत्र मुद्रायां पश्चिमतः पश्चाद्भाग एवं पादयोरुत्सर्गः परस्परसंसर्गत्यागोऽन्तरमित्यर्थ एषा पुनर्भवति जिनानां कृतकायोत्सर्गाणां सत्का जिना वा विघ्रजेत्री मुद्रा जिनमुद्रेति ।।१६।। मुक्ताशुक्तिरिव मुद्रा हस्तविन्यासविशेषो मुक्ताशुक्तिमुद्रा, सा चैवम्-समौ नान्योऽन्यान्तरिताङ्गुलितया विषमौ, द्वावपि, न त्वेको, गर्भिताविव गर्भितावुनतमध्यौ, न तु नीरन्ध्रौ, चिप्पिटावित्यर्थः, हस्तौ पुनरुभयतोऽपि सोल्लासौ करौ भालमध्यभागे लग्नौ सम्बद्धौ कार्यावित्येके सूरयः प्राहुः, अन्ये पुनस्तत्रालग्नावित्येव वदन्ति, तत्र मध्यमभागमध्यवर्त्याकाशगतावित्यर्थः ।।१७।। चक्रे० : अथ व्याख्यातशेषत्रिकस्वरूपं निरूप्य तदाचरणफलमाहुः - देव० : अथ व्याख्यातशेषत्रिकाथस्वरूपं निरूप्य तदाचरणफलमाह - पयडो सेसतियत्थो तत्तो नाऊण एय तियदसगं । सम्मं समायरंतो विहिचेइयवंदगो होइ ।।४५।। चक्रे० : प्रकटार्था ।।४५।। देव० : प्रकटः स्पष्ट: शेषत्रिकाणां नैषेधिकीत्रिकादीनामर्थः । 'तत्तो' इति द्वित्वं प्राकृतत्वात्, ततः पूर्वेषां विवरणादमीषां च प्राकट्याज्ज्ञात्वाधिगम्यैतत् त्रिकदशकं सम्यग्यथावत्समाचरन् विदधानो विधिना सूत्रक्रमेण चैत्यानामर्हत्प्रतिमानां वन्दको विधिचैत्यवन्दको भवति, तदन्यस्तु यथाकथञ्चिल्लोकप्रवाहतो वन्दमानोऽप्यविधिचैत्यवन्दक इत्यावेदितं भवतीति गाथार्थः ।।४५।। १. श्रुतत्वात्रिकदशकमेव' इत्यधिकं पदं सर्वादशेषु दृश्यन्ते २. सूत्रोक्तेन M
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy