SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ४४३ सामान्येन विधानात्। हे चित्रगव इति-पूर्ववद् ह्रस्वत्वे “जस्येदोत्” (१.४.२२) इत्योत्वे विहितविशेषणादोकारविधानसामर्थ्याञ्चौत्वाभावादवादेशः ।।७४।। ल.न्यास-ओत औरिति। चित्रगुरित-अत्र परत्वात् पूर्वं हस्वत्वे कृते पश्चाद् घुटि ओकाराभावाद् 'ओतः' इति वचनादौकारो न भवति, वर्णविधित्वाञ्च स्थानिवद्भावो नास्ति। अथ 'हे चित्रगो!' इत्यत्र ओकारस्य विद्यमानत्वाद * उभयोः स्थानिनोः स्थाने०* इति न्यायेन सेर्व्यपदेशे सति प्राप्नोति कस्मान भवति? उच्यते-यदा उकारव्यपदेशस्तदा सेरभावाद् यदा तु सेर्व्यपदेशस्तदा लाक्षणिकत्वान भवति।।७४ ।। - आ अम्-शसोऽता ।१।४।७५।। बृन्यास-आ अमित्यादि। अम्-शस इति षष्ठ्यन्तम् ‘अता' इत्यस्य विशेषणमित्याह-अम्-शसोरकारेणेति। स्याद्य-धिकारात स्यादिसम्बन्धिन एवामो ग्रहणात त्याद्यमो ग्रहणं न भवतीत्याह-स्यादावित्यादि ।।७५।। अमित्यादि। नन्वत्र अतेति किमर्थम? यत एतदिनाऽपि 'गाः' इत्यादि प्रयोगजातं "समानानां०" (१.२.१) इति दीर्घ सिद्ध्यतीति, उच्यते-अतेति पदं विना पुलिँङ्गे"शसोऽता०" (१.४.४९) इति स्त्रीलिङ्गे"लुगातोऽनापः" (२.१.१०७) इति प्रवर्तेयाताम्, ततश्च 'गान्, गः' इत्याद्यनिष्टं स्यात्, स्थिते तु “शसोऽता०" (१.४.४९) इत्यनेनैव दीर्घस्य संनियोगे नकारोऽभाणि। अचिनवमिति-अत्र आदी "समानादमोऽतः" (१.४.४६) इत्यमोऽकारस्यापि लुग् न भवति, तत्रापि स्याद्यधिकारात् ।।५।। पथिन्-मथिनृभुक्षः सौ ।१।४।७६॥ बृन्यास-पथिनित्यादि-समाहारद्वन्द्वात् षष्ठी, समाहारेण च समाहार्युपलक्षणमित्याह-पथिन् मथिनित्यादि-अत्र घुटीति सम्बन्धात् सीत्यकरणात् सुप् न गृह्यते। “पथे गतौ" “मन्थश् विलोडने” इत्याभ्याम् “पथि-मन्थिभ्याम्०" (उणा० ९२६) इति कितीन्प्रत्यये पथिन् मथिन्, “अर्ते क्षिनक्०" (उणा० ९२८) इति भुक्षिनकि ऋभुक्षिन्, एभ्यः सौ “थो न्थ्” (१.४.७८) इति न्थादेशे “ए:" (१.४.७७) इत्याकारेऽनेन नकारस्याकारे "समानानां तेन०" (१.२.१) इति दीर्घादेशे च पन्थाः। कथमिति-हे सुपथिन् ! इत्यादावामन्त्र्ये नलोपस्य प्रतिषेधात् क्लीबे च पाक्षिकत्वाद् नकारान्तत्वादनेनाकारः कस्मान्न भवति? । समाधत्ते-अत्रेत्यादिअयमर्थः-कृताकृतप्रसङ्गित्वेन “अनतो लुप्" (१.४.५९) इत्याकारात् पूर्वं सेलृप्तत्वात् “लुप्यवृल्लेनत्" (७.४.११२) इति च स्थानि-वद्रावस्य प्रतिषेधात् सेरभावात् सो विधीयमान आकारो न भवति। नकारान्तनिर्देशादिति-पन्थानमिच्छति “अमाव्ययात् क्यन् च" (३.४.२३) इति क्यनि नलोपे दीर्घत्वे पथीयतेः क्विपि “अतः" (४.३.८२) इत्यलोपे “वोः प्वव्यञ्जने" (४.४.१२१) इति यलोपे पथी:, *नकारान्तनिर्देशादनकारान्तत्वादिह न भवतीत्यर्थः। सुखाकरस्त्वकारलोपस्य स्थानिवद्भावाद् व्यवधानादनर्थकत्वाञ्च न भवतीति मन्यते, येन ह्यर्थेनार्थवान् पथिशब्दो लोके न तेन पथीः, व्याकरणे रूपवदर्थोऽप्यङ्गीक्रियत इति *स्वं रूपम् * इत्यत्र रूपावधारणसमये परिग्रहीष्यते, न च तस्य क्यन्नर्थः सम्भवी 'पथिन्' इत्यस्यातदर्थत्वात्, अत एवोच्यते*अर्थान्तरसंक्रमितोऽनर्थकान भिद्यते*, तदा तु नकारान्तनिर्देशात् पथिन्शब्दस्यार्थवतो ग्रहणादनकारान्तस्य पथीत्यस्य तदर्थाभावेऽनर्थकत्वान भवतीति व्याख्यायते। पन्था इत्यादौ सानुनासिकस्याप्यादेशो भवन् “लि लौ” (१.३.६५) इत्यत्र द्विवचनेन ज्ञापितत्वाच्छुद्धस्योञ्चारणाद् वा निरनुनासिक एव भवति ।।७६।। ल.न्यास-पथिनित्यादि-अत्र घुटीति सम्बन्धात् साविति श्लिष्टनिर्देशेन सुप् न गृह्यते। पन्था इति-अत्र सानुनासिकस्याप्यादेशो भवन् “लि लौ” (१.३.६५) इत्यत्र द्विवचनेनैव ज्ञापितत्वाद् निरनुनासिक एव भवति। पथीरिति-पन्थानमिच्छति क्यनि नलोपः, स च "दीर्घश्चियङ्” (४.३.१०८) इति परे कार्येऽसन्न भवति, यतः “रात् सः" (३.१.९०) इत्यतः प्रागेव यत् सूत्रं तदेवासद् भवति, इदं तु "रात् सः" * ला.सू. सम्पादितपुस्तके 'नकारान्तनिर्देशादकारान्तत्वादिह' इति पाठो दृश्यते।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy