SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४४० શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इत्यमभावेन लब बाधिता कथं प्राप्नोति? 'अनत इत्यनुवादकम्' इत्युक्तत्वात्, नेतदस्ति-नात्राम्भावः प्रवृत्तः परत्वान्नित्यत्वाच्च जर सादेशेन बाधितत्वात्, जरसादेशे च कृतेऽनकारान्तत्वादम्भावाप्रसङ्गाल्लुप्प्राप्तिश्योद्यते। ननु किमर्थमम एव लुप् चोद्यते, म्भावे जरस्भावः (?) (नहि सेर्जरस्भावः) प्राप्नोति 'स्वरे' इत्युक्तेरिति, या पूर्वं लुपप्राप्तिः साऽपवादेन बाध्यते, कृते तु जरस्भावे *सन्निपात०* परिभाषया, तथाहि-स्वरादिसन्निपातेन जरस्भावो निष्पन्नो नोत्सहते स्वराद्यानन्तर्यं विहन्तुम्। यद्येवम्, 'अतिजरसम्, अतिजरसैः' इत्यप्राप्तिः, ‘अतिजरम्, अतिजरैः' इति भाव्यम्, तथाहि-(सेभिंसश्च) अकारान्तसन्निपातेन स्वरादिरादेशोऽकारान्तविघातिनं जरसादेशं प्रत्यनिमित्तं स्यात्, सन्निपातपरिभाषावशात्। अतिजरसं पश्येत्यत्र तु नाऽकारान्तसन्निपातकृतं स्वरादित्वमिति भवत्येव जरसादेशः, स च स्वरादिसन्निपातनिमित्तत्वादमो लुपं प्रत्यनिमित्तमिति लुबभाव उच्यते, युक्तमेवैतत्, यद् भाष्यम्-“इष्टमेवैतद् गोनीयस्येति" तदा “जरसो वा" (१.४.६०) इति सूत्रं नारब्धव्यमेवेति, धुड्जातिराश्रीयते न व्यक्तिरिति किं सम्प्रदायमात्रमुत किञ्चिन्निबन्धनमस्तीत्याह-धुटामित्यादि-काष्ठपूर्वात् तक्ष्णोतेः क्विपि जसः शसो वा श्यादेशेऽनेन नागमे "नां धुड्वर्यो०" (१.३.३९) इति वर्यान्ते कृते 'काष्ठतङ्क्षि' इत्यादि ।।६६।। ल.न्यास-धुटामित्यादि-प्रागित्यनेन सह सम्बन्धाभावाद् धुटामित्यत्र “प्रभृत्यन्यार्थ०" (२.२.७५) इति न पञ्चमी। गोमन्ति “ऋदुदितः" (१.४.७०) इत्यनेन परत्वान्नागमेऽनेन नोऽन्तो न भवति ।।६६।। लॊ वा ।१।४।६७।। बृन्न्यास-लो वेति। धुट इति प्रागिति चानुवर्तते, ततश्च र्ल इति सामान्यनिर्देशेऽपि पञ्चम्येव विज्ञायत इत्याह-रेफलकाराभ्यामिति। ऊर्जयतीति भ्राजादित्वात् क्विपि बहव ऊर्जा येष्विति जसः शसो वा “नपुंसकस्य शिः” (१.४.५५) इति श्यादेशेऽनेन रेफानागमे "मां धुड्वये०" (१.३.३९) इति वान्त्ये बहूञ्जि, बहूजि। सुष्ठु वल्गन्तीति क्विपि पूर्ववत् सुवङ्गि, सुवल्गि। बहूजिरेवेच्छन्त्यन्ये ।।६७।। घुटि ।१।४।६८॥ बृन्यास-घुटीति। नपुंसकस्य घुटि परतो नोऽन्तो भवति' इति विधिरेव कस्मान्न भवति? उच्यते-नपुंसके शिमन्तरेणान्यस्य घुट्त्वाभावात् तत्र च “स्वराच्छौ” (१.४.६५) इत्यादिभिर्नागमस्य विहितत्वात् पारिशेष्यादधिकारोऽयमित्याह-अधिकारोऽयमित्यादि। आपादपरिसमाप्तेः पादपरिसमाप्तिं यावत्। अत्र हेतुः-निमित्तविशेषोपादानमन्तरेणेति। अधिकारग्रहणं कर्तव्यम्, अधिकारशब्दश्च कर्तृसाधनो भावसाधनो वा, विनियोगो हि लोकेऽधिकार उच्यते, स एवेह गृह्यते, अधिकारः क्रियते प्रतियोगं तस्यानिर्देशार्थः, योगे योगे तस्य ग्रहणं मा कार्षमित्येतदर्थम्, किमयमर्थोऽधिकारशब्देन परिगृहीतः? परिगृहीत इति ब्रूमः, कुतः? लोकात्, लोके हि 'अधिकृतोऽसौ ग्रामे, अधिकृतोऽसौ नगरे' इत्युच्यते, यो यत्र व्यापारे गच्छति, शब्देन चाप्यधिकृतेन कोऽन्यो व्यापारः शक्योऽवगन्तुमन्यदतो योगे योगे उपस्थानात, नहि परिस्पन्दरूपः शब्दव्यापारोऽस्ति; न कर्तव्यम्-वचनरहिताल्लोकव्यवहारादेवैतत्साध्यस्यार्थस्य सिद्धत्वात्, लोके हि निर्दिश्यमानमधिकृतं गम्यते, तद्यथा-'देवदत्ताय गौर्दीयताम्, यज्ञदत्ताय, विष्णुमित्राय' इति, गौरिति गम्यते; अत्र हि सम्प्रदानविभक्त्या सन्निहिता गोकर्मिका ददातिक्रियाऽपेक्ष्यते, अश्रुतकल्पनायाः श्रुतापेक्षणस्य लाघवात्, एवमिहापि “अचः” (१.४.६९) 'घुटि' इति। "ऋदुदितः” (१.४.७०) इत्यादावाकाङ्क्षादिवशात् प्रकृतस्यैव सम्बन्धो भविष्यति, नाप्रकृतस्य, उच्यते-अन्यनिर्देशो निवर्तकस्तस्मादधिकारः, लोके ह्यन्यस्य निर्देशो निवर्तको भवति, तद्यथा-'देवदत्ताय गौर्दीयताम्, विष्णुमित्राय कम्बलः' इति कम्बलो गोनिवर्तको भवति, एवमिहापि-“अनडुहः सौ” (१.४.७२) इति घुटो निवर्तकः स्यादित्यधिकारवचनम्। ननु तत्राप्यधिकारपरिमाणं न ज्ञायते-कियन्तमवधिमधिकारोऽनुवर्तत इति, तस्मादनुबन्धोऽपि कश्चिदासञ्जनीयः,
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy