SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ૪૨૩ आभिरिति “उपसर्गादातः" (५.३.११०) इति करणे “करणा-ऽऽधारे" (५.३.१२९) इति परमप्यनटं बाधित्वा बहु(ल)वचनादङि आपि च सङ्ख्या, (इति संख्याशब्देन) एकादयः शब्दा एवोच्यन्त इत्याह-सङ्ख्यावाचिनां शब्दानामिति। चतुर्शब्दादनेनामो नामादेशे "रघुवर्णा०" (२.३.६३) इति यथासम्भवं णत्वे “दिर्हस्वरस्य०" (१.३.३१) इति च द्विर्भावे चतुर्णाम्, एवम्-पञ्चन्सप्तन्शब्दाभ्यामामो नामादेशे “दीर्घो नाम्यतिसृ०" (१.४.४७) इति दीर्घत्वे नलोपे पञ्चानाम्, सप्तानामिति। प्रियचतुराम् इत्यादि-प्रियाश्चत्वारो येषामित्यादि विगृह्य र्णामिति षष्ठ्यास्तत्सम्बन्धिविज्ञानादन्यपदार्थसम्बन्धित्वादामो नामादेशाभावः। प्रियपञ्चाम् इत्यत्र तु आमि “अनोऽस्य" (२.१.१०८) इत्यकारलोपे “तवर्ग०" (१.३.६०) इति नकारस्य ञकारः। ननु त्रिंशदादयः शब्दा: सङ्घन्येयेष्वपि वर्तमाना आरोपितसङ्ख्याभावेष्वेव वर्तन्त इति तत्राप्येकवचनान्ता एव भवितुमर्हन्ति, कथं बहुवचनान्ताः? एकशेषात्, तथाहि-त्रिशब्दाद् दशदर्थे वर्तमानात् “विंशत्यादयः" (६.४.१७३) इति निपातनात् शत्प्रत्यये त्रिशब्दस्य त्रिम्भावे च त्रिंशत्, ततः त्रिंशञ्च त्रिंशञ्च त्रिंशतस्तासां त्रिंशताम्, एवम्-चत्वारिंशताम् इति। अथाष्टन-शब्दादामि परत्वात् "वाऽष्टन आः स्यादौ' (१.४.५२) इत्याकारे नान्तत्वाभावात् कथं नाम्भावोऽत आह-बहुवचनमिति ।।३३।। ल.न्यास-संख्यानामित्यादि । र् च ष् च न् च तेषां र्णाम्, “तवर्गस्य०" (१.३.६०) इति णत्वम्, "रघुवर्ण०" (२.३.६३) इति तु न एकपदत्वाभावात्, “वोत्तरपदान्त०" (२.३.७५) इत्यपि न, यतः षकारो न पूर्वपदस्थः किन्तु मध्यमपदस्थः, तर्हि रेफः पूर्वपदस्थोऽस्ति तदपेक्षया णत्वं भवतु, न-“पदेऽन्तरे०" (२.३.९३) इति निषेधात्। ननु ामिति शब्दनिर्देशः, संख्या चैकत्वादिरर्थः, ततः शब्दा-ऽर्थयोः सामानाधिकरण्यं न संगच्छते, सत्यम्-उपचारात् सङ्ख्यार्थाः शब्दाः संख्याशब्देनाभिधीयन्ते; यद्वा संख्यायते आभिरिति “उपसर्गादातः" (५.३.११०) इति “करणा-ऽऽधारे" (५.३.१२९) इति परमप्यनटं बाधित्वा बहुलवचनादङि आपि च संख्याशब्देनैकादयः शब्दा एवोच्यन्ते इति। त्रिंशतामिति-ननु च त्रिंशदादयः शब्दाः संख्येयेष्वपि वर्तमानाः “विंशत्याद्याशताद् द्वन्द्वे" (लिङ्गानुशासन०-२.६) इति वचनात् एकत्वे एव वर्तन्त इत्यत्रैकवचनान्ता एव भवितुमर्हन्ति, कथं बहुवचनम्? सत्यम्-एकशेषात्-त्रिंशञ्च त्रिंशञ्च त्रिंशच त्रिंशतः। अष्टानामितिअथाऽष्टनशब्दादामि परत्वाद् “वाऽऽष्टन०" (१.४.५२) इत्याकारे नान्तत्वाभावात् कथं नामभावोऽत आह-भतपर्वेति ।।३३।। वेस्त्रयः ।१।४।३४॥ बृन्यास-प्रेरित्यादि। आम इति वर्तते, तदत्र त्रेरित्यस्य स्थानिनो विशेषणमित्याह-आमः सम्बन्धिन इत्यादि-आमः सम्बन्धित्वं च त्रेरर्थद्वारकम्, यस्मादामः सम्बन्धी रथस्ततः स आम इत्युच्यते। त्रिशब्दस्यामि अनेन त्रयादेशे “ह्रस्वापश्च" (१.४.३२) इति नामि णत्वे च त्रयाणाम्। विशेषणसमासे परमत्रयाणाम्, आमः सम्बन्धीति। अतित्रीणाम् इति प्रादिसमासः। प्रियत्रीणाम् इति बहुव्रीहिः । अथ तिसृणामिति स्त्रीलिङ्गेऽपि त्रयादेशसामग्र्या विद्यमानत्वात् त्रयादेशः कस्मान्न भवतीत्याह-स्त्रियामित्यादि ।।३४।। ल.न्यास-रेस्त्रय इति। आमः सम्बन्धिन इति-सम्बन्धस्योभयनिष्ठत्वात् आमः सम्बन्धिन इत्यपि युक्तम्, आमः सम्बन्धित्वं च त्रेरर्थद्वारकम्, यस्मादामः सम्बन्धी त्रेरर्थस्ततः स आम इत्युच्यते; आमः सम्बन्धीति कार्यकारणभावे षष्ठी, त्रिशब्दः कारणम्, आम् च कार्यम्, यतस्त्रिशब्दबहुत्वे आम् ।।३४।। एदोद्भ्यां ङसि-ङसो रः ।१।४।३५।। बृन्यास-एदोद्ध्यामित्यादि। * व्याख्यानात् * “ङसेश्चाद्” (२.१.१९) इत्यादिज्ञापकाद्वा चतुर्थ्या वाक्यार्थस्याघटनात् तृतीयाद्यभावनिश्चये पञ्चम्येवेयमित्याह-एदोड्यां परयोरिति । ननु वचनाभेदार्थमुभयत्र समाहारेतरेतरयोगौ कस्मात्र कृतौ? नह्यसति प्रयोजने वचनभेदो युक्त इत्याह-वचनभेद इत्यादि-अन्यथा निमित्त-निमित्तिनोः समानत्वादेकाराद् ङसेरोकाराच ङसो रेफ इति यथासंख्यं स्यादित्यर्थः ।।३५।।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy