SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ૪૧૨ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન डे: स्मिन् ।१।४।८।। बृन्न्यास-डेरित्यादि । डेरिति स्थानसम्बन्धे षष्ठी। सम्बन्धिन इति-सर्वादेः शब्दस्वरूपस्य यः सम्बन्धी डिस्तस्येत्यर्थः, तत्सम्बन्धित्वं च तदर्थगतसंख्याद्यभिधानादर्थद्वारकं द्रष्टव्यम्। सर्वस्मिन्, विश्वस्मित्रिति-सर्व-विश्वशब्दाभ्यां डे: स्मिन्नादेशः। सर्वादेरित्येवेति-'असंज्ञायाम्' इति-विशेषणात्, अर्थविशेषे च सर्वादित्वात् संज्ञायामर्थविशेषाभावे च न सर्वादित्वमित्यर्थः। समे देश इति अविषमेऽनिम्नोन्नत इति यावत्। “तदस्यास्त्यस्मिन्०" (७.२.१) इति ज्ञापकाद् डेरिति सप्तम्येकवचनस्य परिग्रहः, तथैवात्र वाक्यार्थस्य घटनात् ।।८।। जस इ: ।१।४।९।। बृन्यास-जस इत्यादि। सर्वशब्दात् प्रथमाबहुवचने जस इकारादेशे “अवर्णस्य०" (१.२.६) इति एत्वे सर्वे, एवमन्यत्रापि । अथ नपुंसके सर्वशब्दाद् * नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणाद् * जसः स्थाने इकारादेशः कस्मान्न भवति? उच्यतेपरत्वाच्छि-रेवास्य बाधक इत्याह-सर्वाणीत्यादि ।।९।। नेमा-ऽर्ध-प्रथम-चरम-तया-ऽया-ऽल्प-कतिपयस्य वा ।१।४।१०।। बृन्यास-नेमार्धेत्यादि-अत्र समाहारद्वन्द्वात् षष्ठी। नेमस्येति-सर्वादित्वात् पूर्वेण प्राप्ते इति शेषः। व्याख्यानात् तयाऽयौ प्रत्ययौ, तयोश्च केवलयोरसम्भवात् तदन्तस्य कार्यं दर्शयति-द्वितये इत्यादि-द्वि-त्रिशब्दाभ्याम् “अवयवात् तयट्" (७.१.१५१) इति तयटि “द्वि-त्रिभ्यां०" (७.१.१५२) इत्ययटि जसोऽनेन विकल्पेन इकारादेशः। उभयटशब्दस्य जस इकारादेशो विकल्पेन कस्मान भवतीत्याह-उभयडित्यादि-प्रागेव निर्णीतम्। अथ कुत्सिता अल्पा, अज्ञाता अल्पा अल्पका इत्यादिकप्रत्ययस्य स्वार्थिकत्वाद् अल्पादिसम्बन्ध्येव जसिति इभावः कस्मान भवति? उच्यते-ज्ञापितमेवैतत्-डतर-डतमग्रहणेन यदत्र प्रकरणे स्वार्थिकप्रत्ययान्तस्य ग्रहणं न भवतीति। नेमशब्दस्य सर्वादित्वात तत्रासंज्ञायामिति विशेषणादर्धादीनां च व्यवस्थितविभाषाविज्ञानात संज्ञा-स्वार्थिक इकारो न भवतीत्याह-सर्वादेरित्यादि। व्यवस्थितं मर्यादानतिक्रान्तं प्रयोगजातं विशेषेण भाषत इति व्यवस्थितविभाषा ।।१०।। ___ ल.न्यास-नेमार्धेत्यादि । तयोते-"तयि रक्षणे च” “अयि गतौ" इत्याभ्यामचि तया-ऽयौ शब्दावपि स्तः, परं व्याख्यानात् तयायो प्रत्ययौ, तयोश्च केवलयोरसंभवात् तदन्तस्य कार्य दर्शयति-द्वितये इत्यादि। व्युत्पत्तिपक्षेऽपि तयट्साहचर्यात् अयस्य तद्धितस्य ग्रहणम्, न तु "गय-हृदय०" (उणा०३७०) इत्यौणादिकस्य। व्यवस्थितविभाषेति-व्यवस्थितं मर्यादानतिक्रान्तं प्रयोगजातं विशेषेण भाषत इति। अर्धा नाम केचिदिति-नामेत्यदन्तमव्ययम्, नाम नाना संज्ञया, नाम प्रसिद्धार्थो वा, केचिद् वर्तन्ते, कि नाम? अधा ना द्वन्द्वे वा ।१।४।११।। बृन्यास-द्वन्द्वे इत्यादि। पूर्वसूत्रे नेमं प्रति व्यभिचाराभावाद् विशेषणानर्थक्याद् इतरान् प्रत्यसम्भवाजसः सर्वादेरित्यनेन सम्बन्धो न दर्शितः; इह तु सम्भव-व्यभिचारयोर्भावात् प्रदर्शित इत्याह-सर्वादेः सम्बन्धिनो जस इति। (प्रियकतर-कतमाः) प्रियाः कतरकतमे कतरकतमा वा येषामिति विग्रहः। (वस्त्रान्तर-वसनान्तराः) वस्त्रमन्तरं येषां ते वस्त्रान्तराः, “राजदन्तादिषु" (३.१.१४९) दर्शनात् सर्वादिपूर्वनिपातबाधायां वस्त्रशब्दस्य पूर्वनिपातः, एवं वसनमन्तरं येषां ते वसनान्तराः, वस्त्रान्तराश्च वसनान्तराश्चेति
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy