________________
४०४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
:: परिशिष्ट - २ ::
प्रथमाऽध्याय-चतुर्थपादस्य बृहन्न्यास-लघुन्यासौ
अत आः स्यादौ जस्- भ्याम् - ये 1१।४।१।।
बृ०न्यास — अत आः इत्यादि । सिरादिर्यस्य स स्यादिस्ततः सप्तम्या एकवचनम्, 'जस्भ्याम्' इति विभक्त्यनुकरणम्, य इति चतुर्थ्येकवचनादेशस्य, समाहारद्वन्द्वाद् ङिः, स्यादाविति 'जस्-भ्याम्-य' इत्यस्य व्यधिकरणं विशेषणम्, न त्वत इत्यस्यासम्भवात् नहि स्यादिस्थादकारात् परो जसादिः सम्भवतीत्याह- स्यादौ जसीत्यादि वृक्ष- लक्षाभ्यां जसि अपवादत्वात् समानदीर्घत्वबाधकस्य "लुगस्यादेत्यपदे" (२.१.११३) इत्यस्य बाधकोऽयमाकारः, ततः “समानानाम्०" (१.२.१) इति एकादेशे सकारस्य रुत्वे “रः पदान्ते विसर्गस्तयोः” (१.३.५३) इति विसर्गादेशे वृक्षाः, प्लक्षाः । इदमो भ्यामि " अनक्" (२.१.३६) इत्यदादेशेऽनेनाऽऽत्वे च आभ्याम्, अततीति वा "क्वचिद्" (५.१.१७१) इति डे (अप्रकृतेर्वा सिद्धम् ), एवम् -'श्रमण + भ्याम्' इति स्थितेऽनेनाऽऽत्वे श्रमणाभ्याम्, अत्र "एद् बहुस्भोसि" (१.४.४) इत्येत्वे प्राप्ते तदपवादोऽयमाकारः, अत एव तत्र द्वित्वविषयस्यानेनाऽऽघ्रातत्वाद् बहुत्वविशेषणम्, अन्यथा प्रत्यासन्नस्य सकारस्यैव बहुत्वेति विशेषणं स्यात् । श्रमण-संयताभ्यां चतुर्थ्येकवचने " ङेङस्योर्याऽऽतौ” (१.४.६) इति यादेशेऽनेनाऽऽत्वे च श्रमणाय, संयताय, अत्राप्राप्तप्रापणार्थः । अकारसन्निपातेन विधीयमानो यकारस्तद्विघाताय कथं प्रभवतीति न वाच्यम्, यग्रहणवैयर्थ्यप्रसङ्गात् । यद्यपि " आसन्नः " ( ७.४.१२० ) इति न्यायादाकारः कण्ठ्यादिधर्मत्वेन तत्सदृशस्यैव स्थानिनो भवन्नकारस्यैव भविष्यति, तथाप्यवर्णादिक्रमेण कार्यिणामत्र कार्यविधानात् तमन्तरेण च 'सर्वमुखस्थानमवर्णम्' (१.१.१७) इतीवर्णादेरपि स्यादित्यत आह-अत इत्यादि । किञ्च, स्यादिना नान आक्षिप्तत्वाद् हस्वादिलिङ्गाभावात् स्वर परिभाषाऽनुपस्थानाद् “अन्यत्यदादेराः” (३.२.१५२) इत्यादिवद् ‘वाग्भ्याम्' इत्यादौ व्यञ्जनस्यापि स्याद्, अधिकारार्थं चेति । मुनिशब्दात् जसि “जस्येदोद्” (१.४.२२) इत्येत्वे अयादेशे च मुनयः। तत एव भ्यामि मुनिभ्याम्। 'अग्नि+ए' 'वृक्ष+ओस्' इति स्थिते "ङित्यदिति” (१.४.२३), "एद् बहुस्भोसि” (१.४.४) इति च एत्वेऽयादेशे स्यादियकाराभावादाकाराभावे अग्नये, वृक्षयोः || १ ||
**
ल.न्यास—अत आ इत्यादि। अत्र प्रत्ययाऽप्रत्ययोः इति सिद्धे स्यादिग्रहणं "ण षमसत्परे०” (२.१.६०) इत्यादौ प्रयोजनार्थम्, तेन 'राजभ्याम्' इत्यादौ नलोपस्य स्यादिविधौ विधेयेऽसिद्धत्वादाकारो न भवतीति । न चात्र स्यादिग्रहणाभावे "त्रि चतुर०" (२.१.१) इत्यादिविहितस्य स्यादेर्ग्रहणं भविष्यति, यतस्तत्र तस्य ग्रहणेऽपि न किमपि फलम्, अन्यच्च स्यादिग्रहणे शुचिशब्दात् ङयां प्रत्ययत्वात् “ङित्यदिति” (१.४.२३) इत्येवं प्राप्तं निषिध्यते । किञ्च, अत्र स्यादिग्रहणाभावे 'वन्यः' इत्यत्रापि "अवर्णवर्णस्य" (७.४.६८) इत्येतद् बाधित्वाऽऽकारः स्यात्। यद्वा, इत्थं चालना प्रत्ययाऽप्रत्ययोः इति न्यायेन सिद्धे स्यादिग्रहणं "ण षमसत्०" (२.१.६०) इति सूत्रेऽसदिति कार्यार्थम्, तेन 'राजभ्याम्' इति सिद्धम् । इदं च न वक्तव्यम्, यत् वने साधुः "तत्र साधौ” (७.१.१५) इति ये प्रत्यये आकारः प्राप्नोतीति स्यादिग्रहणम्, यतो जस्-भ्याम्साहचर्यात् यकारोऽपि स्यादेरेव लप्स्यते किं स्यादिग्रहणेन ? सत्यम् तर्हि अधिकारार्थम्, तेन शुची स्त्रीत्यादौ ङीप्रत्यये “ङित्यदिति” (१.४.२३) इत्येकारो न भवतीति । वृक्षा इति अत्र जसि अपवादत्वात् समानदीर्घत्वबाधकस्य “लुगस्यादेत्यपदे” (२.१.११३) इत्यस्य बाधकोऽयमाकारः । आभ्यामिति इदम्शब्दस्य, अतते: “क्वचित्” (५.१.१७१) इति डे अप्रकृतेर्वा सिद्धम् । श्रमणाभ्यामिति - स्यादेः पूर्वमेकपदत्वाभावात् कथम्? "रषृवर्ण०” (२.३.६३) इति णत्वं श्रमणप्रकृतेः उच्यते- भाविनि भूतवत् इति न्यायाद् भवति । श्रमणायेति-अकारसंनिपातेन विधीयमानो यकारस्तद्विघाताय कथं प्रभवतीति न वाच्यम्, यग्रहणवैयर्थ्यप्रसङ्गात् ।। १ ।।
भिस् ऐस् । १।४।२।।
बृ०न्यास—भिस इत्यादि। अत इति स्यादाविति चानुवर्तत इत्याह- अकारादित्यादि । (श्रमणैः) 'श्रमण +भिस्' इति स्थिते श्रमणेभ्य इति सावकाशं परत्वेऽप्येत्वं बाधित्वाऽनवकाशत्वाद् ऐस् एव भवति, न च कृतेऽप्येत्वे भूतपूर्वगत्या सावकाशत्व