SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ૪ ૩૫ परिशिष्ट-२ योगः प्रथमः, अध्यर्द्धशब्दः सङ्ख्यासंज्ञो भवतीत्यर्थकः। ततः “क-समासे" इति द्वितीयो योगः, तत्राध्यर्धशब्दोऽनुवर्तते, कप्रत्यये समासे च विधेये अध्यर्द्धशब्दः सङ्ख्यासंज्ञो भवतीति वाक्यार्थः । सैषा सङ्ख्यासंज्ञा द्वितीययोगमन्तरेणापि कप्रत्यय-समासयोः प्रथमेनैव सिद्धा अलं वाक्यभेदेनेति तेन पुनर्नियम्यते-अध्यर्धशब्दस्य सङ्ख्यासंज्ञा चेत् क-समासयोरेवेति, तेन धा-कृत्वसादयो न भवन्तीति। परन्तु मतेऽस्मिन् त्रयो भागा यस्येति त्रिभागः, चत्वारो भागा यस्येति चतुर्भाग इत्येवं क्रमेण त्रिभाग-चतुर्भागादिशब्दानां सङ्घयावाचित्वमापद्यत इति विभावनीयम् ।।४१।। अर्धपूर्वपदः पूरण: ।११।४२।। बृन्यासानु-अर्द्धपूर्वेत्यादि-अत्र “अर्द्धात् पूरणः" इति न्यासस्याऽऽश्रयणे “पञ्चम्या निर्दिष्टे परस्य" (७.४.१०४) इति परिभाषयाऽर्द्धशब्दाव्यवहितोत्तरः पूरणप्रत्ययान्तः सङ्ख्यावद् भवतीत्यर्थलाभेऽर्द्ध पञ्चमं यत्र तदर्द्धपञ्चमं तेनार्द्धपञ्चमेन क्रीतमित्यर्थे समस्तार्द्धपञ्चमशब्दघटकपञ्चमशब्दस्य सङ्ख्यावत्त्वेन कप्रत्यय-समासयोः सिद्धयाऽव्याप्त्यभावेऽपि अर्द्धन पञ्चमेन क्रीतमित्यर्थे समासानवयवस्यापि पञ्चमादिशब्दस्य सङ्ख्यावत्त्वेन समासस्य ततः कप्रत्ययस्य चापत्तिः स्यादिति तादृशो न्यास उपेक्षितः। वस्तुतस्तु-अर्धपञ्चमेति समासेऽपीदानी पञ्चमशब्दमात्रस्यैव सङ्घच्यावत्त्वं स्यादिति क्रीतार्थकस्य कप्रत्ययस्यार्द्धपञ्चमशब्दादनुत्पत्तिरपि दोषः, तथाहि-स्वभाव एष तद्धितस्य यत् स स्वार्थान्वयितावच्छेदकधर्मावच्छिन्नवाचकतापर्याप्त्यधिकरणादेव समुत्पद्यते, इतरथा राजपुरुषस्यापत्यमित्यर्थेऽपत्यार्थकप्रत्ययः स्वार्थान्वयितावच्छेदकीभूतराजपुरुषत्वावच्छिन्नवाचकतापर्याप्त्यधिकरणराजपुरुषशब्दघटकात् पुरुषशब्दादपि समुत्पद्य तदीयाद्यस्वरं वृद्ध्या समुपमर्थ 'राजपौरुषिः' इत्यनिष्टमापादयेत्। न च राजपुरुषस्यापत्यमित्यर्थेऽपत्यार्थकतद्धितप्रत्ययस्य 'राजन् ङस् पुरुष सि' इत्यवस्थायां समासेन निष्पन्नस्य राजपुरुषशब्दस्य घटकात् पुरुषशब्दादापत्तिर्दीयमाना न सङ्गच्छते, षष्ठ्यन्तादेव प्रत्ययस्योत्पत्तेः, राजपुरुषशब्दादुत्पन्नया षष्ठ्या तु राजपुरुषेति समुदायस्य षष्ठ्यन्तत्वं न तु पुरुषशब्दमात्रस्य, पुरुषशब्दस्य तु समासावस्थायां लब्धस्थितिकां विभक्तिं *प्रत्ययलोपे प्रत्ययलक्षणं कार्य विज्ञायते* इति न्यायबलेनाऽऽदाय प्रथमान्तत्वव्यवहारः शक्यते कर्तुम्, स च प्रकृतेऽपत्यार्थकतद्धितोत्पत्तिवेलायां स्तोकमप्युपयोगाय न कल्पेतेति वाच्यम् ; समासो हि प्रथमा-द्वितीयाद्यन्तानां प्रथमान्तेन सह वा परिनिष्ठितविभक्त्यन्तेन सह वा भवतीति सिद्धान्तमनुसृत्य 'राजन् ङस्' इत्यस्य 'पुरुष ङस्' इत्यनेन परिनिष्ठितविभक्त्यन्तेनैव सह समासकरणे "ऐकार्थ्य" (३.२.८) इत्यनेन लुपि *प्रत्ययलोपेऽपि०* इति न्यायेन कार्यार्थं ङसोऽनुसन्धानेन षष्ठ्यन्तत्वलाभात्। समासानन्तरं पदार्थान्तरान्वययोग्या या विभक्तिः समस्तादुत्पद्यते सा परिनिष्ठितविभक्तिरित्युच्यते, प्रकृतेऽपत्यार्थान्वययोग्या षष्ठीविभक्ती राजपुरुषशब्दादुत्पद्यते, सैव समासकरणसमयेऽपि पुरुषशब्दादानेष्यत इति केवलाद् राजपुरुषशब्दघटकात् पुरुषशब्दात् प्रत्ययो दुर्निवारः। सिद्धान्ते तु समुदायाद् राजपुरुषशब्दादेव प्रत्ययो भवतीति तदाद्यस्वरस्यैव वृद्धौ राजपुरुषिरितीष्टं सिद्ध्यति, तथैव प्रकृते क्रीतार्थान्वयितावच्छेदकाऽर्द्धपञ्चमत्वावच्छिन्नवाचकतापर्याप्त्यधिकरणाऽर्धपञ्चमशब्दादेव कप्रत्ययः समुत्पत्तुमर्हति, स च समुदाय इदानीं पञ्चमशब्दमात्रस्यैव सङ्ख्यावत्त्वे “सङ्ख्या-डतेश्चाशत्तिष्टेः कः" (६.४.१३०) इत्येतत्सूत्रीयसङ्ख्यारूपोद्देश्यपदेन न शक्यते ग्रहीतुम्, यश्च पूरणप्रत्ययान्तः पञ्चमादिशब्दस्तत्पदग्रहणयोग्यो नाऽसौ कप्रत्ययार्थान्वयितावच्छेदकधर्मावच्छिन्नवाचकतापप्त्यिधिकरणमिति समुदायात् तदुत्पत्तिर्गगनकुसुमोत्पत्तीयतेतराम्। एवम् अर्द्धपञ्चमैः शूर्पः क्रीतमित्यर्थे "सङ्ख्या समाहारे च०" (३.१.९९) इत्यनेनेष्टः समासोऽपि न सिद्धयेत्, तथाहि-ऐकार्थ्यरूपसामर्थ्यसत्त्व एव कोऽपि समासो भवति, ऐकाN नाम स्वपर्याप्त्यधिकरणघटितत्वस्वनिरूपकेतरनिरूपितशक्तिपर्याप्त्यधिकरणघटितत्वस्वग्रहप्रयोज्यग्रहविषयीभूतशक्तिपर्याप्त्यधिकरणत्वैतत्रितयसम्बन्धेन शक्तिविशिष्टत्वम्, 'राजपुरुषः' इत्यादौ राजत्वावच्छिन्नाद्यर्थनिरूपितशक्तिमादाय लक्षणसमन्वयः; यथा-राजत्वावच्छिन्नार्थनिरूपितशक्तिपर्याप्त्यधिकरणराजपदघटितत्वं, राजत्वावच्छिन्ननिरूपितशक्तिनिरूपकेतरपुरुषत्वावच्छिन्ननिरूपितशक्तिपर्याप्त्यधिकरण
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy