SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ४१ धात्वर्थप्रधानत्वादध्याहरति-भवत इति। “भिदंपी विदारणे" अत: “भावाऽकों:" (५.३.१२) इति घञि “लघोरुपान्त्यस्य" (४.३.४) इत्युपान्त्यगुणे भेदशब्दः, स च "भेदो विदारणे द्वैध उपजाप-विशेषयोः।" इति वचनादनेकार्थक इति प्रकृतोपयोगिनोऽर्थस्य निर्णयायाह-नानात्वमिति-न आनयति (न प्रापयति स्वगततयैकत्वपर्याप्तिम्) इति नाना, तस्य भावो नानात्वम् अत्र आयूर्वान्नयतेः 'डित्” (उणा० ६०५) इति डिति आप्रत्यये अन्त्यस्वरादिलोपे “भावे त्व-तलौ" (७.१.५५) इति त्वप्रत्ययः । "नानाशब्दो विनार्थेऽपि तथाऽनेकोभयार्थयोः। स्थाने तु कारणार्थे स्याद् युक्त-सादृश्ययोरपि" ।।४।। (इति मेदिनी, अव्य० श्लो० ४५) इति वचनाद् विविधार्थत्वेऽप्यनेकार्थपरस्य नानाशब्दस्य ग्रहणमिति बोधयितुमाह-एकत्वप्रतियोगीति-"इंण्क् गतौ" अत एति-अभेदं गच्छतीति “भीण-शलि-बलि०" (उणा० २१) इति के गुणे च एकः, तस्य भाव एकत्वम्, एकत्वसङ्घयेत्यर्थः, "प्रथिष् प्रख्याने" अतः “प्रथेच्क् च वा" (उणा० ६४७) इति तिप्रत्यये अन्तस्य लोपे च प्रतिः, स चात्र वामार्थद्योतको ग्राह्यः, "युनूंपी योगे" अतः प्रतियुनक्ति विरोधं दधातीति “युज-भुज०" (५.२.५०) इति धिनणि उपान्त्यगुणे “क्तेऽनिटश्चजो०" (४.१.१११) इति जस्य गत्वे प्रतियोगिन्, एकत्वस्य प्रतियोगि विरोधभाक् एकत्वप्रतियोगि, यत्र पर्याप्तिविशेषेणैकत्वं न तत्र तेन सम्बन्धेन नानात्वमित्येकसम्बन्धेनैकत्रावृत्तित्वरूपं विरुद्धत्वमवसेयम्, एकत्वभिन्ना सङ्ख्यात्वव्याप्यरूपविशिष्टा सङ्घयेति फलितार्थः, तादृशं रूपं च बहुत्वत्वादिकमवसेयम्, भेदो (अन्योऽन्याभावो) यत्र स्वप्रतियोगिवृत्तित्व-स्वाश्रयवृत्तित्वाभ्यां सम्बन्धाभ्यां तिष्ठेत् तादृशो बहुत्वादिसङ्ख्यारूपो धर्म इति तात्पर्यम्। 'बहवो घटाः' इत्यादौ घटवृत्तिबहुत्वस्य बहुत्वाश्रयापरघटभेदाश्रयेऽपरस्मिन् घटे यथा सत्त्वं तथा भेदप्रतियोगिबहुत्वाश्रयघटेऽपीति बहुत्वमीदृशो धर्मो भवितुमर्हति। यद्यपीदृशो धर्मो द्वित्वत्रित्वादिरपि भवति, तथापि प्रकृते बहु-गणशब्दयोरुपादानाद् द्वि-त्र्यादिशब्दानां निरासः । त्र्यादिषु घटेषु बहुशब्दप्रयोगेऽपि तेषां बहुत्वेनैव बोधो न तु त्रित्वादिनेत्यन्यदेतत्। बहुभिः क्रीत इति बहुकः। बहुभिः प्रकारैरिति बहुधा। बहवो वारा अस्येति बहुकृत्वः। गणैः क्रीत इति गणकः। गणैः प्रकारैरिति गणधा। गणा वारा अस्येति गणकृत्वः। अर्थविशेषोपादानफलं पृच्छति-भेद इति किमिति। प्रत्युत्तरयतिवैपुल्ये सङ्घ च सङ्ख्याकार्य मा भूदिति, वैपुल्ये-विशालत्वार्थे वर्तमानस्य बहुशब्दस्य सङ्घ - सङ्घातार्थे वर्तमानस्य गणशब्दस्येति क्रमेण योजनीयम्। विपोलतीति विपूर्वात् “पुल महत्त्वे" इत्यस्माद् “नाम्युपान्त्य०" (५.१.५४) इति के विपुलः, तस्य भावो वैपुल्यं तस्मिंस्तथा। संहन्यत इति सङ्घः, सम्पूर्वाद्धन्ते: “निघोद्घ-सङ्घो०" (५.३.३६) इत्यलि साधुः, तत्र तथा। वैपुल्ये यथाबहु रुदितम्। सो यथा-भिक्षूणां गणः। अथ बहुगणशब्दयोर्भदवाचित्वात् सङ्ख्यात्वमस्त्येव, यतो भेदः परिगणनं सङ्खयेति, ततश्चैकादीनामिव बहुगणशब्दयोरपि लोकादेव सङ्ख्यात्वसिद्धौ किमनेनातिदेशवचनेन?, अतिदेशो हि अन्यत्रार्थप्रसिद्धस्यान्यत्रप्रसिद्धिप्रापणार्थ इत्याह-बहु-गणावित्यादि-नियम्यते स्मेति निपूर्वात् “यमूं उपरमे" इत्यस्मात् "क्त-क्तवतू" (५.१.१७४) इति क्ते “यमिरमि०" (४.२.५५) इति मलोपे नियतः, अवधीयत इत्यवपूर्वाद् दधातेः, 'उपसर्गादः किः' (५.३.८७) इति को “इडेत्पुसि चातो लुक्" (४.३.९४) इत्यातो लोपे च अवधिः, अभिदधातीति अभिपूर्वाद् दधातेः “णक-तृचौ” (५.१.४८) इति णके "आत ऐ: कृञौ" (४.३.५३) इति आकारस्य ऐकारे तस्य आयादेशे च अभिधायकः, नियतो निश्चितोऽवधिरवसानं यस्य तादृशस्य भेदस्य अनेकत्वरूपस्य अभिधायको वाचकाविति नियतावधिभेदाभिधायको। अयं भावः-निश्चितावसाना या सङ्ख्या तद्वाचकस्यैव सङ्ख्याशब्दत्वमिति लोकप्रसिद्धिः, यथा-'पञ्च घटाः' इत्युक्ते सति पञ्चैव न षडादय इति पञ्चत्वावसानबहुत्वसङ्ख्याया निर्णयादस्ति पञ्चशब्दस्य सङ्ख्याशब्दत्वम्, 'बहवो घटाः' इत्यत्र तु केवलं बहुत्वसङ्ख्या प्रतीयते न तु तदवसानमपि, बहुशब्दस्य त्रित्वादिव्यापकसङ्ख्यावाचकत्वाद्, अतो न बहुशब्दस्य सङ्ख्यावाचकत्वप्रसिद्धिः। एवं गणशब्दस्यापि। सङ्ख्याप्रसिद्धेरभावादिति-सङ्ख्यावाचकत्वाभावादिति स्पष्टमनुक्त्वा प्रसिद्ध्यभावकथनेनेदं ज्ञाप्यते-सङ्ख्यावाचकत्वं त्वस्त्येव, किन्तु सङ्ख्यात्वेन प्रसिद्धिर्नास्ति, अत एव
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy