SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ४२७ “आऽष्टादशभ्य एकाद्याः सङ्ख्याः सङ्घयेयगोचराः" इति वाचस्पतिना, “आ दशभ्यः सङ्ख्या सङ्खयेय वर्तते" इति महाभाष्यकृता पतञ्जलिना च सङ्ख्यावाचकार्थे विनैव लक्षणां सङ्ख्याशब्दस्य प्रयोगकरणात् प्रकृतेऽपि विनैव लक्षणां सङ्ख्यावाचकपरः सङ्ख्याशब्द इत्यपि शक्यते वक्तुम्। तत्र सङ्ख्यारूपार्थपरत्वे एकश्च द्वौ चेति एक-द्वौ, एक-द्वौ आदी यस्या इति विग्रहः। लक्षणया विना लक्षणया वा सङ्ख्यावाचकशब्दरूपार्थपरत्वे तु एकश्च द्विश्चेति एक-द्वी, तौ आदी यस्या इति विग्रहः।। ___ ननु सङ्ख्यावाचकपरत्वे एकश्च द्विश्चेति तु एकश्च द्वौ चेति विग्रहभेदः कथं क्रियते? इति चेत्, इत्थम्-अर्थपरत्वे एव व्यादीनाम् “आ द्वेरः" (२.१.४१) इत्यादिनाऽत्वादिविधानाद् एकत्व-द्वित्वसङ्ख्यापरत्वपक्षे एकश्च द्वौ चेति विग्रहः, शब्दपरत्वे तु अत्व-द्विवचनान्तत्वादिनियमादीनामभावेन एकश्च द्विश्चेति विग्रहो न्याय्य एव। अथ उभयोरपि विग्रहयोः षष्ठ्यर्थो घटकत्वमिति वक्तव्यम्, घटकता च समुदायाऽविनाभूता, यथा-वीरघटको वकार इत्युक्तौ वकारेकार-रेफा-ऽकार(वीर)समुदायान्तःपाती वकार इति गम्यते, प्रकृते 'सङ्ख्या' इत्येकवचनान्तप्रयोगेण तत एकस्यां सङ्ख्यायाम्, एकस्मिन् सङ्ख्यावाचकशब्दे वाऽभिधीयमाने समुदायाभावादेकव्यादौ घटकता नोपपद्यत इति कथमत्र बहुव्रीहिनिर्वाह्यतामिति न शङ्कयम्-स्वभावतः शब्दानां कदाचिज्जातिपरतया कदाचिद् व्यक्तिपरतया वा 'सर्वो घटः, सर्वे घटाः' इत्यादौ प्रयोगदर्शनेन प्रकृते जातिपक्षाभिप्रायेण प्रयोगे सङ्ख्यासमूहस्य सङ्ख्याशब्देन गम्यतया सङ्ख्यापरत्वे एकत्वादीनां सङ्ख्यासमूहघटकत्वम्, सङ्ख्यावाचकपक्षे एकादिशब्दानां सङ्घयावाचकसमूहघटकत्वं च निष्प्रत्यूहम्। ननु सङ्ख्याशब्दस्य सङ्ख्यारूपार्थपरत्वे एक-द्विशब्दावपि प्रकृतेऽर्थपरौ भवेताम्, अर्थपरत्वे च एकाद्यष्टादशान्तशब्दानां सङ्खयेयपरतैव कोष-भाष्यादितः प्रतीयत इत्येकत्व-द्वित्ववैशिष्ट्येन व्यक्तिविशेषा ज्ञायेरन्, एकत्व-द्वित्वसङ्खये च न ज्ञायेयातामिति प्रकृते सङ्ख्यारूपार्थपरत्वं प्रतिपादितं न युज्यत इति चेत्, न-एक-द्विशब्दयोः प्रकृते भावप्रधाननिर्देशतास्वीकारेण एकत्वद्वित्वरूपसङ्ख्यामात्रप्रतिपादकत्वात्। ननु एकादिशब्दानां विशेष्यलिङ्गतो व्यपदेशेन ‘एको घटः, एका शाटी, एकं वस्त्रम्' इति तत्तल्लिङ्गः पृथक् पृथग् व्यवहारो दृश्यते, प्रकृते तु एकश्च द्वौ चेति पुल्लिङ्गतो विग्रहः केनाभिप्रायेण युज्येत? प्रत्युत त्रिलिङ्गत्वेन सामान्यतो नपुंसकलिङ्गत एव विग्रहो युक्त इति चेत्, सत्यम्-तत्र तत्र विशेष्यसनिधानेन विशेष्यलिङ्गतो व्यवहारेऽपि प्रकृते सङ्ख्यापरत्वेनाऽभेदविशेषणत्वाभावेन लिङ्गनियन्त्रणाभावे पुं-नपुंसकान्यतरेण व्यवहारस्य दृष्टतयाऽत्र पुल्लिङ्गतो विग्रहस्य विधानात् “सङ्ख्या त्वेकादिका भवेत्" (अभिधान० का० ३, श्लो० ५३६) इत्यत्र स्वोपज्ञव्याख्यायां भगवता श्रीहेमचन्द्राचार्येणाऽपि 'एकादिका'शब्दविषये “एक आदिरस्या एकादिका, आदिग्रहणाद् द्वौ त्रयः चत्वारः" इति पुल्लिङ्गतो यदुपवर्णनं कृतं तदप्यत्र बीजम्। महाभाष्यकारोऽपि 'बहुषु बहुवचनम्' (पाणि० १.४.२१) इति सूत्रे कस्य एकत्वे? इति सङ्ख्यार्थाभिप्रायेण कस्य एकस्मिन् ? इति, अग्रेऽपि तत्सूत्रे एकत्वे एकवचनमेव' इत्यर्थे 'एकस्मिन् एकवचनमेव' इति च पुल्लिङ्गमेव प्रायुक्त। यद्यपि “सङ्घयेये ह्यादश त्रिषु" “आऽष्टादशभ्यः एकाद्याः सङ्ख्याः सङ्खयेयगोचराः" “आऽष्टादशभ्यः सङ्ख्याः सङ्घयेये वर्तते" इत्यादिकोष-भाष्यादिपर्यालोचनया एकादिशब्दानां सङ्ख्यार्थे प्रयोगो नोचित इत्यभिधातुं शक्यते, तथाऽपि लौकिकप्रयोगाभिप्रायेण एकादयः सङ्घयेयपरा एव साधुत्वशालिनः प्रयुज्येरन् न तु सङ्घच्यापरा इत्यभिप्रायस्तेषां वर्णनीयः । एकत्वेऽर्थे एकवचनम्, द्वित्वेऽर्थ द्विवचनम्, बहुत्वेऽर्थे बहुवचनम्, इत्याद्यर्थाभिप्रायेण व्येकयोद्विवचनैकवचने (पा० १.४.२२) "बहुषु बहुवचनम्" (पाणि० १.४.२१) इत्यादौ पाणिनेः “कस्य एकस्मिन्? कयोर्द्वयोः? केषां बहुषु" इत्यादौ महाभाष्यकारस्य च सङ्ख्यापरतया प्रयोगाणां सत्त्वमेव तदभिप्रायवर्णनबीजमवसेयम्। न च सङ्ख्यापरत्वे एकशब्देन एकत्वस्य द्विशब्देन द्वित्वस्य चाभिधानेन एकत्व-द्वित्वरूपवस्तुद्वयगतद्वित्वसङ्ख्यामादायैव 'व्येकयोः' इति द्विवचनप्रयोगो युक्तः, अन्यथा 'येकेषु' इति स्यादिति तद्वदेकत्वमादाय एकः' इत्येवं द्वित्वमादायाऽपि एकवचनेन
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy