________________
परिशिष्ट-२
૪૧૫ स इहाऽऽश्रीयते। नन्वेतदपि कुतो लभ्यते? लभ्यते अत एव, तथाहि-युज्यते संबध्यत इति योगः, प्रकृष्टो योगः संबन्धः प्रयोगः, तस्यैव ना निषेधः क्रियते, न सर्वथा; *सविशेषेणौ हि विधि-निषेधौ विशेषणेन संबध्येते * 'लोहितोष्णीषा ऋत्विजः प्रचरन्तु' इतिवत् ; एवमिहापि यस्य शास्त्रोच्चारणे संबन्धोऽस्ति, लौकिकप्रयोगे तु संबन्धाभावस्तस्य निषेधः, न तु यस्य सर्वथा संबन्धाभावः, स च सामर्थ्याच्छास्त्रे उपदिश्यमान एव विज्ञायते इत्याह-इह शास्त्रे उपदिश्यमान इत्यादि । वर्णस्तत्समुदायो वेति-विशेषानुपादानादुभयस्याप्रयोगिणः (ग्रहणमित्यर्थः)। शास्त्रे सूत्रपाठेऽखिलपाठे च धातु-नाम-प्रत्यया-ऽऽ-गमाऽऽदेशोपदेशेषूपदिश्यमानः। लौकिक इति-लोकस्य ज्ञातो लौकिकस्तस्मिन्, प्रयुक्तिः प्रयोगः, शब्दस्य प्रयोगः शब्दप्रयोगः, नाट्यादिप्रयोगश्च व्यवच्छेद्यस्तत्र, यो न दृश्यते इति। ननु कथमदर्शनम् ? दृशो ह्यर्थो यः (ननु कथमदर्शनं नोऽर्थः? यः) सत्स्वन्येषु दर्शनप्रत्ययेषु न दृश्यते स नास्तीति निश्चीयते, अत्र तु कथं न दृश्यत इत्युक्तमित्याह-एत्यपगच्छतीति। ननु प्रमाणमन्तरेण वचनमात्रेणापगमाभावादपगमे यतितव्यमित्यत आह-अप्रयोगित्वेत्यादि। अयं भावः-अप्रयोगित्वानुवादेनेत्संज्ञाविधानाद्, अनुवादाञ्च विध्यवसायात् तल्लोपसिद्धिः, लोपाभावे हि तत्प्रयोगादप्रयोगित्वाभावात् संज्ञिन एवाभावादित्संज्ञाया अभावः। अथवा यस्य कादाचित्कः प्रयोगः सोऽप्रयोगी, सर्वथा प्रयोगाभावे धर्मिण एवाभावात् कस्य संज्ञा स्यात्?, तत्र चातिप्रसङ्गः सर्वस्य कादाचित्कप्रयोगात्, 'वृक्ष, खट्वाँ' इत्यादावनुनासिकस्यापि इत्संज्ञाप्रसङ्गः। न च इत्-कार्याभावादित्संज्ञा न भविष्यतीति वक्तुमुचितम्, तदनुवादेन विधीयमानस्य लोपस्यैव कार्यत्वात् ; नैवम्-अकार्यत्वाल्लोपस्य, इह हि शब्दस्य कार्यार्थो वा भवति प्रयोगः श्रवणार्थो वा, कार्यं चेह नास्ति, अकार्ये सति यदि श्रवणमपि न स्यात् प्रयोगोऽनर्थक: स्याद्। इदमस्तीत्कार्यम्-इह यदा *अनेकान्ता अनुबन्धाः* तदाऽनन्तरमित्संज्ञक: कार्यस्य विशेषको भवतीति धातोरादित्त्वादिनिषेधप्रसङ्गः। तर्हि धात्वादिपाठकाल एव यस्य प्रयोगोऽन्यदा त्वप्रयोगस्तस्येत्संज्ञेति विधास्यामः, सत्यम्-सिध्यति, सूत्रं तु भिद्यते, तर्हि यथान्यासमेवाऽस्तु। ननु चोक्तमित्संज्ञायां सर्वप्रसंगोऽविशेषात्, नैष दोषःप्रयुज्यतेऽनेनेति प्रयोगः शास्त्रम्, करणसाधनः, न सिध्यति, अनवकाशत्वादनटा भाव्यम्। न ब्रूमः “भावाकोः" (५.३.१८) इति, किं तर्हि ? "व्यञ्जनाद् घञ्" (५.३.१३२)। ननु नाम्नीति वर्त्तते, न चेदं नाम, बहुलवचनादनाम्न्यपि भविष्यति, बाहुलकानाम्नि भवति, क्वचिदनाम्न्यपि; न-प्रत्ययस्य विधेयतया प्राधान्याद् बहुलग्रहणं प्रत्ययेनैव संबध्यते, न तु गुणेन संज्ञयेति बहुलग्रहणात् संज्ञायामेव स्याद् वा नवा; *नापाधेरुपाधिर्भवति, विशेषणस्य वा विशेषणम् * इति; उपाधि-विशेषणयोश्च वाच्यत्वा-ऽवाच्यत्वाभ्यां विशेषः, तथाहि-दृतिहरिरिति प्रत्ययेन कर्ता पशुरभिधीयते इति पशुरुपाधिः। गार्गिकया श्लाघत इति श्लाघाऽका नाभिधीयत इति विशेषणमुच्यते। यदि *उपाधिरुपाधेर्न भवति, विशेषणस्य वा विशेषणम् * इति ततः “कल्याण्यादेरिन् चान्तस्य" (६.१.७७) "कुलटाया वा" (६.१.७८) इति निर्देशो न प्राप्नोति, तत्र हि प्रत्ययस्य विधेयतया प्राधान्यात् तादर्थ्येन प्रकृतेर्गुणत्वात् तदादेशस्येनोऽपि गुणत्वादुपाधित्वादिति, नैवम्-इन एवात्र प्राधान्यमपूर्वोपदेशरूपेण विधीयमानत्वाद् ; एयणस्तु “ड्याप्त्यूङः" (६.१.७०) इति सिद्धस्य तदनुवादेन विधानादप्राधान्यमिति दोषाभावः । इह तर्हि “चर्मि-वर्मि-गारेट-कार्कट्य-काक-लङ्का-वाकिनाञ्च कश्चाऽन्तोऽन्त्यस्वराद्" (६.१.११२) इति न प्राप्नोति, नैवम्-अत्रापि क एव प्रधानं वाक्यभेदेन तस्यैव विधानात्, एवं न चेदिदमनाश्रितं भवति
*नोपाधेरुपाधिर्भवति, विशेषणस्य वा विशेषणम् इति, तस्माद् गुणप्रधानसंनिधौ यत्र प्रधानमर्थि भवति विशेषणेन तत्र तस्यैव विशेषणं न्याय्यं न तु गुणस्येति घञ् (न) प्राप्नोति, एवं तर्हि बहु(ल)वचनात् “करणाधारे" (५.३.१२९) भविष्यति ('क्वचिदन्यदेव' इति बहुलभेदमाश्रित्य अनट्प्रस्तावेऽपि घञ् भवतीति भावः)। प्रयुज्यते कार्यमनेनेति प्रयोगः शास्त्रम्, अल्पार्थे च नञ्, अल्पत्वं च शास्त्र एव यः पठ्यते, लौकिकप्रयोगे तु न संबध्यते, तत् कार्यं दृष्ट्वाऽनुमीयत एव केवलम्। ननु कथमस्याभावः? कृतकार्यत्वादिति ब्रूमः, कार्यार्थं ह्यसौ पठ्यते, तस्य च निष्पन्नत्वाद्, उपायस्य चोपेयसिद्धौ परित्यागात्, जिह्वामूलीयोपध्मानीयादिषु ककारादिवत्,