SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ४०४ लभते, दृश्यर्थे यथा-'जना लोभं न यन्ति पशु मन्यमानाः' इति, अत्र दृश्यर्थन मननं विशेष्यते, दर्शनीयं ज्ञानं प्रतिपन्ना जना लोभं परित्यजन्तीत्यर्थः । “चिंग्ट चयने" अतो “नञः कमि-गमि०" (उणा० ४) इति बाहुलकाद् डित्यकारे च अन्वाचय-समाहारेतरेतरयोग-समुच्चयेषु। नञपूर्वाज्जहातेः पूर्ववद् डित्यकारे "नजत्" (३.२.१२५) इत्यत्वे अह निर्देश-विनियोग-किलार्थेषु । जहातेः पूर्ववद् डः, ह अवधारणे पादपूरणे च। “वन भक्तौ" अतः “डित्" (उणा० ६०५) इति डित्याकारे वा विकल्पोपमानयोः। “इंण्क् गतौ" अतः "लटि-खटि-खलि०" (उणा० ५०५) इति वे गुणे च एव अवधारण-पृथक्त्व-परिमाणेषु, अस्यैव निपातनाद् मान्तत्वे एवम् उपमानोपदेश-प्रश्नावधारण-प्रतिज्ञानेषु। “णूत् स्तवने" अतः “नशि-ब्रूभ्यां नक्तनूनौ च” (उणा० ९३५) इत्यम्प्रत्यये नूनादेशे च नूनम् तर्केऽर्थनिश्चये च। शश्वत् इति स्वरादावपि पठितः। सुपूर्वात् कुपूर्वाञ्च पतेः क्विपि बाहुलकाद् दीर्घत्वे च सूपत्, कूपत् द्वावपि प्रश्न-वितर्कप्रशंसासु। क्वचित् स्वरादावप्यधीतः। नयतेश्चिनोतेश्च विचि निपातनात् तागमे नेत्, चेत् द्वावपि प्रतिषेधविचारसमुञ्चयेषु। नञ्पूर्वात् चिनोतेरेव पूर्ववद् नचेत् निषेधे। चण्णिात-चशब्द एवायं णित् चेदर्थे पठ्यते, अयं च दास्यति, अयं चेद् दास्यतीत्यर्थः । केचित् तु “चण शब्दे" इत्यस्य विजन्तस्य रूपमिच्छन्ति, तत् तु न बुद्ध्यामहे । कुपूर्वाच्चिनोतेः क्विपि निपातनात् कन्द्रावे कञ्चित् इष्टप्रश्रे। “यतैङ् प्रयत्ने" अतः "त्रट्" (उणा० ४४६) इति त्रुटि यत्र कालेऽधिकरणे। "'णहींच् बन्धने' अतः "अः" (उणा० २) इत्यप्रत्यये नह प्रत्यारम्भ-विषाद-प्रतिविधिषु। नह्यते: मण्यादित्वादिकारे नहि अभावे। 'हनंक हिंसा-गत्योः' अत: “दम्यमि-तमि०" (उणा० २००) इत्यत्र बहुवचनात् ते हन्त प्रीति-विषाद-संप्रदानेषु। माङ्पूर्वान्नपूर्वाञ्च कायतेर्बाहुलकाद् डितीसि आकारलोपे “नञत्" (३.२.१२५) इत्यत्वाभावे च माकिस्, नकिस्, द्वावपि निषेधे वर्जने च। “मांक माने” अतः "डित्" (उणा० ६०५) इत्याप्रत्यये आकारलोपे च मा, ‘अङित् माशब्दो नास्ति' इत्यन्ये, ङिद्योगे माङ्, नह्यते हुलकाद् डकारे न, जिद्योगे च नञ्, एते सर्वेऽपि निषेधे। वाते: “लटि-खटि-खलि०" (उणा० ५०५) इत्यत्र बहुवचनाद् वे वाव संबोधने। "तुंक् वृत्ति-हिंसा-पूरणेषु” (“णुक् स्तुतौ") इत्याभ्याम् “प्रह्वाऽऽह्वा-यह्वा०" (उणा० ५१४) इति निपातनाद् वे आकारे गुणाभावे च त्वाव, न्वाव, वात-तौति-नौतिभ्यः “संश्चद्वेहत्साक्षादादयः" (उणा० ८८२) इति कति प्रत्यये आवागमे च वावत्, त्वावत्, न्वावत्, एते सर्वेऽपि अनुमान-प्रतिज्ञा-प्रेष-समाप्तिषु। तौतेर्बाहुलकाद् डितैकारे (ङित्यकारे) वत्वे तुवादेशे च त्वै तुवै, नौतेः पूर्ववत् न्वै नुवै चत्वारोऽप्येते वितर्के पादपूरणे च। "रांक दाने" अतः “रातेः" (उणा० ८८६) इति डिदैकारे अन्तलोपे रै दाने दीप्तौ च। वाते हुलकात् पूर्वेण डैप्रत्यये वै स्फुटार्थे। श्रृणोति-वाति-वष्टिभ्यो बाहुलकादटि प्रत्यये यथाक्रमं श्रौष्-वौष्-वषाऽऽदेशे च श्रौषट्, वौषट्, वषट् देवहविर्दानादौ। “वट वेष्टने" अतो विचि बाहुलकादुपान्त्यस्य विकल्पेन दीर्घत्वे वट वाट, "विट शब्दे" अतो विचिगुणे च वेट्, एते त्रयोऽपि वियोगे वाक्य-पादपूरणयोः। पटेणिगन्तात् क्विपि पाट, अपिपूर्वादटेणिगन्तात् क्विपि निपातनादपिशब्दस्याकारलोपे च प्याट् द्वावप्येतौ संबोधने। अत्र डकार केचित् पठन्ति। “स्फट विशरणे" अतो बाहुलकात् क्विपि सकारलोपे च फट, अस्पैव हुंपूर्वस्य हुंफट्, छमेर्विचि छम्, तत्पूर्वाद् वटेविचि छंवट, एते त्रयोऽपि भर्त्सनसंबोधने। नपूर्वाद् दधातेः "क्वचिद्" (५.१.१७१) इति डे नोऽत्वे च अध अधोऽर्थे। आपूर्वादततेः क्विपि आत् कोप-पीडयोः। “स्वदि आस्वादने" अतः "मुचि-स्वदेर्ध च" (उणा० ६०२) इत्याप्रत्यये दस्य धाऽऽदेशे च स्वधा पितृबलौ। सुपूर्वाद् “बॅग्क् व्यक्तायां वाचि" इत्यतः "सोबॅग आह च” (उणा० ६०३) इत्याकारे आहादेशे च स्वाहा हविर्दाने। अलम् इति स्वरादौ निरूपितम्। “चन शब्दे" "अ:" (उणा० २) इत्यकारे चन अप्यर्थे पादपूरणे च। हिनोतेः क्विपि *आगमशासनमनित्यम् इति तागमाभावे च हि हेताववधारणे च। “अम गतौ" अतः “पथ-यूथ-गूथ-कुथ-तिथनिथ-सूरथादयः" (उणा० २३१) इति थे निपातनान्मकाराभावे च अथ मङ्गलानन्तरारम्भ-प्रश्न-कात्रन्र्येषु। ओमिति स्वरादौ पठितम्। अथ शब्दस्यैव निपातनादोकारे अथो अन्वादेशादौ। “णुक् स्तुतौ" अतो विचि गुणे च नो निषेधे। नौतेः “त्रियो हिक्" (उणा० ७१०) इति बाहुलकाद् हौ गुणे च नोहि निषेधे। भातेर्भपूर्वाद् गमेः "अघुङ् गत्याक्षेपे" अतश्च “यमि-दमिभ्यां डोस्" (उणा० १००५) इति बहुलवचनाद् डोसि प्रत्यये अङघेस्त्वन्त्यस्वरादिलोपाभावे नलोपे
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy