SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ૩૬૫ मत्वर्थीये मत्सरिणः। प्रकर्षणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति “व्यञ्जनाद् घञ्" (५.३.१३२) इति घञि प्रवादा: प्रवचनानि। यथा परस्परविरोधात् परे प्रवादा मत्सरिणः, न तथा त्वत्समय इति । अत्र विशेषणद्वारेण हेतुमाह-पक्षपातीति-यतो रागनिमित्तवस्तुस्वीकाररूपं-पक्षं पातयति नाशयतीत्येवंशीलः, रागस्य जीवनाशं नष्टत्वात्। अत्रैव हेतुमाह-नयानशेषानविशेषमिच्छनिति-नयान् नैगमादीन् समस्तानविशेषमभेदं यथा भवत्येवमङ्गीकुर्वन्। अयं भावः-नयाना समत्वेन दर्शनाद् रागमयस्य पक्षस्य पातितत्वात् समयस्य मत्सराभावः, परेषां तु विपर्ययात् तत्सद्भाव इति। सम्यगेति गच्छति शब्दोऽर्थमनेनेति “पुत्रानि०" (५.३.१३०) इति घे समयः संकेतः । यद्वा, सम्यगयन्ति गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् रूपे प्रतिष्ठां प्राप्नुवन्त्यस्मिन्निति समय आगमः। मत्सरित्वस्य विधेयत्वात् तेनैव नत्रः संबन्धात् पक्षपातिशब्देन त्वसंबन्धात् प्रक्रम-भेदाभावः। परोक्तेनापि द्रढयति-नया इत्यादि-नीयन्ते प्राप्यन्ते जीवादयोऽर्था एकदेशविशिष्टा एभिरिति नयाः, निरवधारणा अभिप्रायविशेषाः, सावधारणस्य दुर्नयत्वात्, समस्तार्थप्राप्तेस्तु प्रमाणाधीनत्वात्, ते च नैगमादयः सप्त, तव स्यात्पदेन चिह्निता अभिप्रेतं फलन्ति-लिहाद्यच् ("लिहादिभ्यः" ५.१.५०) (निष्पादयन्ति) अभिप्रेतं फलं येभ्य इति बहुव्रीहिर्वा। प्रणता इति- प्रणन्तुमारब्धवन्तः। हितैषिण इति विशेषणद्वारेण हेतुः, हितैषित्वादित्यर्थः । 'आराद् दूरान्तिकयोः' सम्यग्ज्ञानाद्यात्मकमोक्षमार्गस्याऽऽरात् समीपं याताः प्राप्ताः, दूरं वा पापक्रियाभ्यो याता(गता) इत्यार्याः। नन्वस्तु युक्तियुक्तः स्याद्वादस्तदधीनत्वाच्छब्दसिद्धेः, तथापि अनभिहिताभिधेयप्रयोजनत्वात् कथमिदं प्रेक्षावत्प्रवृत्तिविषय इत्याशङ्कयाऽऽह-अथवेति-विविक्तानामसाधुत्वविमुक्तानां शब्दानां प्रयुक्तेः सम्यग्ज्ञानरूपा सिद्धिः। साधुशब्दाश्चात्राऽभिधेयाः । यमर्थमधिकृत्य प्रवर्त्तते तत् प्रयोजनमिति सम्यग्ज्ञानमनन्तरं प्रयोजनम्, तद्द्वारेण तु निःश्रेयसं परमिति। यतः "द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्। शब्दब्रह्मणी निष्णातः परं ब्रह्माधिगच्छति"।।८।। (त्रिपुरातापिन्युपनिषद् ४.१७) "व्याकरणात् पदसिद्धिः पदसिद्धेरर्थनिर्णयो भवति। अर्थात् तत्त्वज्ञानं तत्त्वज्ञानात् पर श्रेयः ॥९॥ इति। संबन्धस्त्वभिधेय-प्रयोजनयोः साध्य-साधनभावः, शब्दानुशासनाभिधेययोस्तु अभिधानाभिधेयरूपः, स च तयोरेवान्तर्भूतत्वात् पृथग् नोपदर्शित इति ।।२।। लोकात् ।१।१३।। बृन्यास-लोकादिति-"लोकङ् दर्शने" लोक्यतेऽवलोक्यते निर्णयार्थमिति घजि लोकः, लोकते पश्यति सम्यक् पदार्थान् इत्यचि वा। उक्तात-उक्ताः स्वरादिसंज्ञाः, ताभ्योऽतिरिक्ताः क्रियादिसंज्ञास्तासामिति। “साध्यरूपा पुर्वापरीभूताऽवयवा क्रिया" इति वैयाकरणाः। “संयोग-विभागयोरनपेक्षकारक(ण) कर्म" इति प्रामाणिकाः (वैशेषिकसूत्रम्)। विशेषणं गुण: "सत्त्वे निविशतेऽपैति (पृथग्जातिषु दृश्यते। आधेयश्च क्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः" । ।।१०।।) इत्यादिको वा। "आकृतिग्रहणा (जातिलिङ्गानां च न सर्वभाक्। सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैस्सह" ।।११।।) इत्यादिलक्षणलक्षिता जातिः। त्रुट्यादिः कालः ("स्वस्थे नरे समासीने स्पन्दते वामलोचनम्। तस्य त्रिंशत्तमो भागस्त्रुटिरित्यभिधीयते ।।१२।।) स्त्यानप्रसवो लिङ्गम्, रूपादीनां पर्यायाणामपचयः स्त्यानं स्त्री, तेषामेव प्रवृत्तिः सवनं प्रसवः पुमान्, साम्यावस्था नपुंसकमिति।
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy