SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः । यथा समगतोमेशे श्रीः कृष्णे समस्त च । संगंसीष्ट त्वयि तथा सा शुभैः संगसीष्ट च ॥ १२० ॥ १२०. यथेशे शंभावुमा गौरी समगत संबद्धाभूद्यथा कृष्णे श्रीः समगंस्त च तथा सा कन्या त्वयि संगंसीष्ट संबद्धीभूयात्तथा शुभैः पुत्रलाभादिभि: संगसीष्ट च ॥ संगंसीष्ट । इत्यत्र “गमो वा [३७] इति वा समगत समगस्त । संगसीष्ट [ है० ४.३.३९. ] किद्वत् ॥ मा ते व्याहत विघ्नोत्रेत्युक्त्वा चित्रकृति स्थिते । रागमन्तर्गतं राज्ञो रोमोद्गम उदायत ।। १२१ ॥ ७२५ १२१. राज्ञः कर्णस्य रोमोद्गमो रोमाश्वोन्तर्गतं रागमुदायतासूचयत् । दोषाविष्करणं चात्र धैर्यगाम्भीर्यगुणान्वितस्य राज्ञो रागदोषस्य प्रकटनात् । क सति । चित्रकृति स्थिते । किंकृत्वा । उक्त्वा । किमित्याह । हे राजन्नत्र मचणल्लाविषये ते तत्र विघ्नोन्तरायो मा व्याहत मा व्याघातं कार्षीदिति ॥ व्याहत । इत्यन “हनः सिच्” [३८] इति सिंधू विद्वत् ॥ उदायते । इत्यत्र " यमः सूचने” [३९] इति सिच् किद्वत् ॥ उपायत नृपो रत्नान्युपायंस्त च काञ्चनम् । अदितास्मै गृहीत्वासौ प्रास्थिताधित संमदम् ॥ १२२ ॥ १ डी 'म् । आदि. १ बी मो विति. २ ए कृत्वेक्त्वा . सी डी कृत्वेत्युक्त्वा. ३ बी सी डी ई येत. ४ ई सिच कि° ५ बी सी डी 'त । अत्र.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy