SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ [ है. ४.३.२९.] नवमः सर्गः । शयिता पविते तल्पे स्मरबाणप्रधर्षिता । सा पृच्छति तवोदन्तमुदण्डयितपक्षिणः ॥ ११२ ॥ ११२. सा कन्योदीच्या उत्तरस्या दिशो डयिता उड्डीना ये पक्षिणस्तान्कर्णपादिमी आगता इति तवोदन्तं कुशलवार्ता पृच्छति । किंभूता सती। स्मरबाणप्रधर्षितो कामावैः परिभूतात एव पैविते पवित्रे तल्पे शयिता ॥ प्रस्वेदिताप्रमेदिता धैर्याप्रक्ष्वेदितापि सा । न मर्पितवती तापं सेवित्वाप्यम्बुजस्थितिम् ॥११३॥ ११३. सा कन्याम्बुजस्थितिं कमलपत्रशय्यायामवस्थानं सेवित्वापि तापं स्मरोद्रेकोत्थं संतापं न मर्षितवती न क्षान्तवती पंद्यसेवया तस्यात्यन्तं समुल्लासात् । कीदृशी । प्रस्वेदिता सात्विकविकारोजृम्भणात्स्वेदं क्षरितुमारब्धा । तथा धैर्याप्रक्ष्वेदितापि धैर्येणामुक्ताप्यप्रमेदितामेदुरा कृशेत्यर्थः ।। डयित । शयिता । पविते । प्रधर्षिता । अप्रक्ष्वेदिता । प्रस्वेदिता । अप्रमे दिता। इत्यत्र "न टी" [२०] इत्यादिनां को न किद्वत् ॥ मर्षितवती । इत्यत्र "मृषः क्षान्तौ" [२८] इति में किद्वत् ॥ सेवित्वा । इत्यत्र "क्रवा" [२९] इति किन ॥ १ डी साप से. १ई उद्दीना. २६ तात. ३ ए पठिते. ४ सी वित्रे. ५९ न. ६ बी सी डी पमासे. ७ ए स्वेवि . ८ सी डी "यितः । श. १५ 'ना को न. १० एन किं वृद. ११ एति विकि'. ९१
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy