SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ [ है ०४.२.११२.] नवमः सर्गः। र्थस्थस्य क्षेमराजस्य सेवार्थं कर्णो देवप्रसादाय क्षेमराजपुत्राय दधिस्थली ग्रामं ददौ । यतः किंभूतायाप्रमाद्यते क्षेमराजसेवादौ सोद्यमाय तथा शाम्यत उपशान्ताय तथा दाम्यते जितेन्द्रियाय गुरुशुश्रृपाक्लशसहाय वा ॥ नोक्षाम्यशाम्यदश्राम्यत्सैन्यः कर्णाभिधामपि । द्विषतां फेननिष्ठीवनासनिष्ठेवने दिशन् ॥ ७८ ॥ ७८. कर्णो द्विपतामभिधामपि नाक्षाम्यहिपः समूलमुन्मूलितवानित्यर्थः । कीडक्सन् । भ्राम्यत्सर्वासु दिक्षु प्रसरदश्राम्यदखिद्यमानं सैन्यं यस्य सोत एवं द्विपतां फेननिष्ठीवनामृनिष्ठेवने रणेत्यन्तं खेदनान्मुखेन फेनोद्वमनरक्तोद्वमने दिशन्ददन् ।। असीवन कीर्तिपटं दिक्सेवनं नयामि ते । नयावश्च नयामश्वेत्यूचुस्तं के न भुभूजः ॥ ७९ ॥ ७९ तं कर्ण के भूभुजो नोचुः । कथमित्याह । असीवनं सेवनरहितमस्फुटितमेकखण्डं वेत्यर्थः । ते कीर्तिपटं दिक्सेवनं दिग्भिः सह बन्धनं नयामि त्वद्यश: सर्वत्राहं विस्तारयामीत्यर्थः । आवां नयावो वयं नयामश्चेति ॥ शाम्यते । दाम्यते । अताम्यतः । अश्राम्यत् । भ्राम्यत् । अक्षाम्यत् । अप्रमाद्यते । अत्र "शम्" [1] इत्यादिना दीर्घः ॥ निष्टीवन निष्ठेवने । असीवनम् सेवनम् । इत्यत्र "ष्ठिव्" [१२] इस्यादिना वा दीर्घः॥ १ ई नाक्ष्याम्य. १ सी नाकाम्य'. २ ए बी सीडी मस्फटि'. ३ ए त्यर्थकीस्तकी'. ४ ए पl दिक्सव. ५ ए वी त्यर्थ । आ. ६ बीते । आता ७ए निष्टीव'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy