SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ६५६ धाश्रयमहाकाव्ये [भीमराजः ] क्रापयविपदमून्विशिखरध्यापयच्च रुदितान्यरिनारीः। जापयत्स्यमभिसाधयदर्थ व्याप सेधयदरीशमनीकम् ॥ ११३ ॥ ११३. अनीकं भीमसैन्यं व्याप सर्वत्र प्रससार । कीटक्सत् । विशिखैः कर्तृभिषिदसून कापयवाहयदत एवारिनारी रुदितान्यध्यापयञ्च रोदयदित्यर्थः । तथा स्वमात्मानं ज्ञातिमात्मीयं वा जापयद्विजयमानं प्रयुञ्जानम् । तथार्थ स्वकार्य देशस्वीकारादिकमभिसाधयनिपादयत् । तथारीशं सिन्धुराजं सेधयदहं तवोपर्यागच्छामीति ज्ञापयत् ॥ कापयत् । जापयत् । अध्यापयत् । इत्यत्र “णौ क्रीजीङः" [ १० ] इत्यात् । अर्थमभिसाधयत् । इत्यत्र "सिध्यतेरज्ञाने" [११] इत्यात् । अज्ञान इति किम् । अरीशं सेधयत् ॥ स्फारयद्धनुरचापयदुचैः स्फोरयद्धनिमचाययदेतत् । गाः प्रवापयति यश्च बलाका यः प्रवाययति वा स इवतुः ॥११४॥ ११४. एतद्धीमानीकं कर्तृ धनुश्चापं स्फारयदाकर्षत्सद्धनुरेवोच्चैरचापयढ्यस्तारयत्तथोचैरुदात्तं ध्वनि सिंहनादं स्फोरयर्दुच्छालयत्सशनिमचाययब्यस्तारयत्। उपमामाह । य ऋतुर्गा धेनूः प्रवापयति गर्भ पाहयति य ऋतुर्बलाकाश्च पक्षिणीभेदांश्च प्रवाययति स तुरिव वर्षाकाल इवेत्यर्थः । वर्षासु हि पुरोवाते वाति गावो बलाकाश्च गर्भ गृहन्ति । यथा वर्षतुर्धनुरिन्द्रचापं ध्वनि गर्जितं च विस्तारयति तथेत्यर्थः ॥ १५: । स्वमात्मी'. २ सी कार्यदे'. ३ सी दं स्फार'. ४ ई दुत्साल. ५९ वा तो वा. ६ बी धनु.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy