SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ [ है ० ४.१.१०१.] अष्टमः सर्गः। ६४९ केनाप्यबद्ध पूर्व इत्यर्थः । तथाप्युयोननुकूलत्वेन रौद्रो यो विधिपाको दैवपरिणामस्तस्य नियोगादवंश्यंभावाद्धेतोरमूभिरमूर्च्छद्भिः सोद्यमैरित्यर्थः । तोमचमूपैनोर्माणस्तूर्वन्तः सेतुबन्धेन पीडका ये चमूपास्तैस्तूर्णः सेतुबन्धेन पीडितोत एव भूतो जलशोषे या तूति: सैन्यपानां त्वरणं तया का कृता जूर्तिर्वर: पीडा यस्य सः ॥ सोद्गवक्रमुरुकूजमसंकोचं च मद्गुभिरनाशि तदोघात् । न्यङ्कवञ्चमभिवञ्चति सैन्ये मेघटिवदटव्यनुयाजैः ॥१०५॥ १०५. मर्दुभिर्जलवायसैस्तदोघाद्वहप्रवाहादनाशि भयेन पलायितम् । कथम् । सहोद्वक्राभ्यामार्जवकौटिल्याभ्यां वर्तते यत्तत्सोद्गवकं तथोरुमहान्कूजोव्यक्तशब्दो यत्र तदुरुकूजं तथासन्सकोचोगावयवानां मीलनं यत्र तच्च यथा स्यादेवम् । क सति । सैन्ये । किंभूते । न्यङ्गु. मंगभेदस्तस्येव वञ्चो गमनं यत्र तद्यथा स्यादेवं द्रुतमित्यर्थः । अभिवञ्चति गच्छति । यथा मेघस्य वृष्टिर्यत: सा मेघवृष्टिः कारीरीष्टिस्तस्यां सत्यामटव्यामनुयाजा आहुतिविशेषा अटव्यनुयाजास्तैनश्यते । वृष्टिकामैर्हि कारीरीष्टिररण्ये क्रियते तस्यां चानुयाजाख्यास्त्रय आहुतिविशेषा न दीयन्त इति श्रुतिः ॥ अशृते दुग्धहविषी यज्ञकृद्भिः । अत्र"श्रपेः" [१०] इत्यादिना शुभावो निपात्यः ॥ अन्ये तु श्रपिं चुरादौ पठन्ति । तस्यैव अपेनिपातनम् । प्रयोजकण्यन्तस्य त्वेकस्यापि प्रयोगं नेच्छन्ति । तन्मते श्रपिते दुग्धहविपी यज्ञकृद्भिरित्येव स्यात् ॥ १ बी मुरकू. २ बी नुजा:. १ डी था तुणीन. २ ई वस्यंभा'. ३ सी मूतिर. ४ ए तृति से. ५ डी °पानानां. ६ डी भि. ई दि. ७ सी डी तङ्गतम् ।. ८ डी स्तस्यैष. ९ सी डी 'नं तत्र. १०ई 'प्टिः करी. ११ई कामे हि का. १२ ए दीन्त. १३ सी अश्रुने. १४ सी ना श्रमा'. १५ ए वसप'. १६ ए कस्य ज्य'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy