SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ [ है ०४.१.२५.] अष्टमः सर्गः। खेनुरेषु पफणुस्तव मृताः सस्वनुस्तव गुणांश्च विफेणुः। तत्रसुः स्वविषये न हि यत्रेसुरत्र न चरा अपि तद्वत् ॥ ४५ ॥ ४५. हे राजंस्तव सूता भट्टा एषु पूर्वोक्तेषु वृन्दावनादिविषयेषु पफणुर्जग्मुः । तथा विफेणुर्भयाभावेन स्वेच्छाचारित्वाद्विशिष्टं जग्मुः । तथा स्वेनुस्त्वदाशीर्वादायूचुः । तथा तव गुणान्सस्वनुश्चाकीर्तयंश्च । तथा तव चरा अपि हेरिका अपि । किं पुनः सूतादय इत्यप्यर्थः । यद्वद्यथा स्वविषये निजदेशे गूर्जरत्रायां न हि नैव तत्रसुर्बिभ्युस्तद्वत्तथा. त्रैषु देशेषु वृन्दावनादिषु न त्रेसुः ॥ सस्यमुर्यदलयो यदु हंसाः स्येमुराः कुरुषु तन्न रराजे । रेज ईश तव कीर्तनमाबभ्राज इन्द्रसुतवर्णनकं वा ॥ ४६॥ ४६. उ हे ईश स्वामिन्नलयो भृङ्गा यत्सस्यमुः शब्दायिता यच्च हंसाः स्येमुस्तत्स्यमनम् । आ इति खेदे । कुरुषु देशेषु न रराजे सुखदं नाभूदित्यर्थः । खेदश्च तच्छब्दानां मधुरत्वेन सुखदानामप्यसुखकत्वात् । तर्हि किं रराज इत्याह । तव कीर्तनं वर्णनकं कुरुषु रेजे । वा यद्वा । इन्द्रसुतवर्णनकमर्जुनवर्णनाबभ्राजे कर्णाहादकमभूदित्यर्थः ॥ भ्रेज ऐल इति राघव आवभ्रास ईश्वरगणः परिभ्रेसे । भ्लेस आर्किरजभूपतिरावभ्लास इत्यनुदिशं त्वयि वादाः ॥४७॥ ४७. इत्येवंविधा वादास्त्वयि विषयेनुदिशं प्रतिदिशमभूवन् । के १ वी कीर्तिन. १ सी डी नुस्तदा'. २ सी नुश्चकी'. ३ बी मन् मा . एन.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy