SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ५९२ व्याश्रयमहाकाव्ये [भीमराजः] तुदन् । भृजमानः । अत्र "तुदादेः शः" [८१] इति शः ॥ रुन्धे । भनज्मि । इत्यत्र "रुधाम्" [ ८२] इत्यादिना स्वरात्परः सः । प्रकृतिनव च लुगन्वाचीयते ॥ कुर्वन् । व्यातन्वानः । अमन्वानः । अत्र “कृग्" [८३] इत्यादिना-उः ॥ असर्जि । सृज्यते । वक्ष्यतेयं भक्तिम् । अत्र "सृजः" [ ८४ ] इत्यादिना कर्तरि भिक्यात्मनेपदानि ॥ एतेन मां गृहाणेति राज्ञा यदुक्तं तनिपिध्ये तीर्थ रुन्धे कर्मपाशान्भनज्मीत्यनेन तपोङ्गीकरणं यत्सूचितं तत्फलं राज्येप्युपपत्त्या दर्शयंस्तपोङ्गीकरणं वृत्तद्वयेन निषेर्धन्नाह । ये तप्यन्ते तत्तपस्तेपिरे वा तान्पातस्तेकारि तीनं तपो हि । कारिप्यन्ते सिद्धयोथ क्रियन्तेपाचिश्रेयः पच्यते पक्ष्यते वा॥१७॥ १७. हे राजंस्तत्तीर्थसेवातीव्रत्वादिना प्रसिद्धं तपो व्रतं ये तपस्विनस्तप्यन्ते कुर्वन्ति तेपिरे वा चक्रुर्वा । उपलक्षणत्वात्तप्स्यन्ते वा ता. न्पातो रक्षतस्ते तव । हि यस्मात्तीनं तपोकारि अकार्षास्तीनं तपस्त्वम्। अनायाससाध्यत्वात्प्रयोक्तैवं विवक्षितवान्नायमकार्षीत्किं त्वकारि तपः स्वयमेव । तपस्विरक्षकत्वेन तत्तपोविभागित्वात्ते स्वयमेव तपो निष्पन्न. मित्यर्थः । तस्मात्सिद्धयो मनोरथपरिपूर्तयस्तव कारिष्यन्ते करिष्यसि त्वं सिद्धीः । कारिष्यन्ते सिद्धयः स्वयमेव । निष्पत्स्यन्ते स्वयमेवेत्यर्थः । अथ तथा सिद्धयः क्रियन्ते खयमेव निष्पद्यमानाः सन्तीत्यर्थः । उपलक्षणत्वात्स्वयमेव निष्पन्नाश्च । वाथ वा युक्तमेवैतद्यसिद्धयः कारिष्यन्ते क्रियन्तेकॉरिषत चेति । यतस्तव श्रेयस्तपोजनितं पुण्यमपाचि अपाक्षीः श्रेयस्त्वम् । अपाचि श्रेयः खयमेव स्वयं परि १९वादीय. २५ °ध्य तर्थ. ३६ गीकारं . ४ बी सी डी धयचा. ५सीटी रक्ष्यत . ६ई मेवेत. ७ सी रिष्यत, डी रिष्यन्त चे.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy